SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। १९६धातुरिति धातुपत्ययपर्युदासवैयापतिः। तयोः प्रशस्तार्यपवाभावात् । सुबन्तानामेव प्रशस्तार्थवन्स्वादाम इत्यादेरना. पत्तेश्च । अन्वयव्यतिरेकाभ्यामर्थवत्त्वं च केवलपत्ययपि समम् । नातस्तेन तदन्तत्वसिदिः । वस्तुतस्तु शशशु नास्तीत्यादौ शशशृङ्गशब्दस्य संज्ञासिदये समासग्रहणं विध्यर्थमेवोचितम् । अन्यथा सा न स्यात् । अर्थाभावेनार्थवन्त्वाभावाद । किं च यदि वृत्त्यार्थप्रतिपादकत्वमर्थवत्वं सूत्रे गृह्यते तःकार्थी- . भावस्य त्वया वृत्तिमात्रे स्वीकरात्कृत्तद्धितान्तयोरपि तेनैव सं. प्रहात्सुबन्ततिङन्तयोरेकार्थीभावाभावेनासंग्रहादर्थवत्सूत्रे प्रत्ययान्तपर्युदासस्य कृत्तद्धितसूत्रवैयर्थ्यस्य चापत्तिारा । कुद्नहणाभावेन च मूलकमित्यादिष्वतिप्रसङ्गासम्भवान्न नियमार्थमपि समासग्रहणावश्यकत्वमिति विभावयामः । तस्मान कश्चिद्वयपेक्षापले दोषः । अयमेव पक्षो नैयायिकाद्यङ्गीकृत इति स्फुटीकरिष्यामः। एतन्मते एव वाप्यश्व इत्यादावीदूतौचसप्तम्यर्थ इत्यत्राथग्रहणसामर्थ्यादीदुदन्तस्य सप्तम्यर्थमात्रपर्यवसन्नत्वलाभाचदभावान प्रगृह्यसंज्ञेति भाष्ये स्थितं सङ्गच्छते । तस्मात्परस्परान्वये योग्यतारूपा व्यपेक्षैव सामर्थ्यम् । तच्च पदानां स्वार्थत्यागे न सम्भवतीति भजहत्स्वार्थी व्यपेक्षा चैकैव । तथा चात्र मते ल. क्षणानि नासम्भवीनीत्याशङ्का सुदृढोत भावः । नन्वत्र पक्षद्वयोपि पुरुषांशमाधान्यसत्त्वाद्राजपुरुषः सुन्दर इतिवद्राजपुरुषो देवदत्तस्य चेत्यपि स्यादित्याशङ्कां निरसितुमाह । ते पुनरिति । वृत्तिद्वयमपीत्यर्थः । तत्र हेतुं प्रदर्शयन्नेव विभजते । भेद इत्या. दि । वाच्यत्रविध्यादेव वैविध्यमिति भावः । भेदः। अ. न्योन्याभावः । तथा च । राजपुरुष इत्यादावराजकीयमित्रः पु. रुषहतियोषः। तथा चैतद्विरोधामोक्तप्रयोगापादनामिति भावः। .
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy