SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे पदमुत्सरश्च न प्रत्ययस्तस्य नेत्यपि वचनं कर्तव्यमिति गौरवं स्यादिति समासग्रहणमेव तदर्थमस्तु । एकार्थीभावमभ्युपेत्यार्थवत्सूत्रेण समासस्य संज्ञास्त्विति चेन्न । अधातुरिति पर्युदासबलादेव पूर्वसूत्रेथवत्त्वलाभसम्भवेन व्यर्थस्यार्थवत्पदस्यैवैवंविधनियमा. र्थस्वसम्भवे पृथक् समासे शक्तिकल्पने गौरवात् । न चोत्तरसूत्रे तदन्तत्वसिद्ध्यर्थमावश्यकस्यानर्थक्यविरहात्कथं नियामकत्वमिति वाच्यम् । उत्तरार्थस्यापीह किञ्चित्रपो इति न्यायेन नियमार्थताया वक्तुं शक्यत्वात् । विनापि तदन्तत्वस्य केवलानां कृत्तद्धितानां संज्ञाया निष्प्रयोजनत्वेन डतरडतमान्तयोरिव लाभसम्भवाच्च । अन्यथा केवलडतरडतपयोरपि सर्वनामसंज्ञापत्तेः केवलप्रयोगाभावेन सा निष्फलेति चेत्तुल्यम् । किञ्चार्थवद्रहणानुवन्त्या कथं तदन्तत्वसिद्धिः । केवलकृत्तद्धितयोरपि तत्तद्विध्यनुरोधेनार्थवन्त्वाक्षतेः अन्यथा प्रादूहोढोढ्येषैष्येष्वित्यत्र प्रौढ इति तान्तवत्योढवानिति क्तवत्वन्तग्रहणस्य तीयस्य ङित्सु सर्वनामताया द्वितीयस्माइत्यादाविव पटुजातीयायेत्यत्राप्यापतेश्च । अर्थवद्ग्रहणे नानर्थकस्यति परिभाषाप्रवृत्तेरुभयोरनर्थकत्वादसम्भवात् । अथ डतरडतमयोः संज्ञा व्यथेति तदन्तत्वासिदिरस्तु । इह च केवलकृत्तद्धितयोः संज्ञायाः फिषोन्तउदात्त इति स्वर एव प्रयोजनम् । न च प्रत्ययस्वरेण बाधान तत्संम्भवः । येन नाप्राप्तिन्यायेन प्रातिपदिकस्वरस्य सुब्धातौ धातुस्वरवत्मबलत्वात् । एवं प्रक्रियादशायां कल्पितमर्थवत्वमादायार्थवद्ग्रहणपरिभाषा सूपपादा । कृत्तद्धितौ यावर्थवन्तावित्यन्वये प्राशस्त्यार्थकमतुपा प्रशस्तार्थवत्वं लभ्यते । तच्च प्रत्ययाज्ञानेपि समुदायव्युत्पन्नानां बोधात्तस्यैवेति सिध्यत्यर्थवत्पदेन तदन्तत्वमिति चेत्तथैवदप्रत्ययः प्रातिपदिकमित्येवोपपत्ता
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy