________________
पाकरणभूषणे पादा चेति भाष्यएव स्वमतमभिप्रेत्योक्तम् । ननु विग्रहे सा नास्तीत्येवमाभिप्रायं तदित्युक्तमिति चेन्न । समासे तस्याः साधकस्य भाष्यकारैरन्यथासिद्भुयपवर्णनविरोधापत्तेः । तथा चायमर्थः । सेयं पूर्व व्युत्पादिता युगपदधिकरणवचनता दुःखा समर्थसूत्रे दूषितव्यपेक्षावादस्मारकत्वात् । दुरुपपादा दुष्टं नि:सारमुपपादनं प्रमाणं यस्याः सा तथा । निष्प्रमाणेत्यर्थः । तथाहि । न तावत् द्यावा तामेति व्यासे दर्शनात्समासे सा स्वीकार्या । चावा क्षामेत्यस्य छान्दसत्वात् । नाप्यहरहरित्यादौ समासप्रसङ्गवारणाय सा स्वीकार्यो । समर्थः पदविधिरिति प. रिभाषयैव तद्वारणात् । धवखदिरावितीतरेतरयोगे भेरीपटहमिति समाहारे च पुष्पवन्तौ पश्येत्यादाविवैकपदोपात्तो मिलितावेवान्वियातां न तु प्रत्येकम् । अन्यथा पश्य धवं खदिरं छिन्धीत्यादाविव पश्य धवखदिरौ छिन्धीत्यादावपि प्रत्येकान्वयषोधापत्तिः। तथा च साहित्यरूपेणोपस्थित्यर्थ शक्त्यभ्युपगमे. नैका भावसामर्थ्यसत्वाद्भवति समासः। अहरहरिति समु. चये प्रत्येकं गवादेः क्रियान्वयेन विशिष्टशक्त्यस्वीकारेणासामर्थ्यान्न सः । एवमन्वाचयेपि द्रष्टव्यम् । भाष्यकारास्तु चार्थेद्वन्दू इति सूत्रेथवद्रहणसामोदेव तद्वारणमाहुः । अन्यथा च द्वन्दू इत्येवावक्ष्यत् । तथा च समुच्चयान्वाचयेतरेतरयोगसमाहारेषु समुच्चयान्वाचययोरर्थग्रहणसामर्थ्याल्लभ्यस्य चैनेव यः प्रकाशितोर्थस्तत्र विद्यमानमने सुबन्तं समस्यतइत्यर्थस्याभावाम समासः। प्रतीयते च गामश्वमित्यत्र समुच्चयो विनापि चकारम् । भिक्षामट गां चानयेत्यन्वाचये चानुषङ्गि पदं चार्थे वर्तते न प्रधानाभिधायीत्यनेकं चार्थे न वर्तते अतस्तयोः स.. मासाभावेपि इतरेतरयोगसमाहारयोश्वार्थयोर्विवक्षायां समास ..