SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। सङ्गवारणायावश्यकत्वात्स्वार्थबोधफलोपधानाभावरूपाजहत्स्वा. यता सूपपादैव । अस्मिन्मपि पक्षे मागुक्तरत्यिार्थवत्परिभाषाया अस्वीकारान्नातिप्रसङ्गादित्यवधेयम् । एवं च जहत्स्वार्थतावशादेव नीलोत्पलं . अक्ष इत्यादौ नोद्देश्यविधेः यभावान्वयो न वान्यपदार्थे त्रित्वस्य सत्यपि तात्पर्ये ऽन्व: यबोध इत्यादिकं सङ्गच्छते । ननु समुदायशक्तिनिबन्धनेयं नहत्स्वार्थता तादृशशक्तिमति समासे एव भवेत् । तत्कथं वृत्तिमात्रे जहत्स्वार्थतेति सिद्धान्तो मूलं वा सामान्यतः सङ्गच्छताम् । न च वृत्तिमात्रे एवातिरिक्तशक्तिः सिद्धान्तसिद्धति तनिबन्धनेयमपि स्यादिति वाच्यम् । व्यपेक्षायां सामर्थ्य परिभाषायां च सत्यां यावान् व्याकरण पदगन्धः स सर्वः संगृहीतः समासस्त्वेको ऽसंगृहीत इति भाष्यविरोधादिति चेन्न । भाष्ये समा. सग्रहणस्योपलक्षणत्वात् । एकार्थीभावे वृत्तिरन्यथा वाक्यमिति सिद्धेः समर्थानांप्रथमावत्यत्र समर्थग्रहणमकर्तव्यं क्रियतइति स. मर्थसूत्रे भाष्यात् । समर्थपदं कृतसन्धित्वार्थकमन्यथा व्यर्थत्वादिति तत्रापि भाष्योक्तेश्च । पदविधिरिति लिङ्गाच्च । पदमुद्दिश्य यो विधिः प्रवर्तते तस्यैव पदविधित्वात् । एवं च कृत्सु ये प. दमुद्दिश्य विहितास्तत्रैव जहत्स्वार्थता नान्यत्रेति द्रष्टव्यम् । यथाश्रुते व्याकरणस्थसर्व विधीनां पदसंबन्धित्वाविशेषादव्या. वर्तकतापत्तौ पदवैयर्थ्यांपत्तेरिति दिक् । तथा चैकार्थीभावे एव जहत्वार्थता सूपपादेति स एव जहत्स्वार्थपक्षः । नन्वस्मिन्पक्षे द्वन्द्वादौ युगपदधिकरणवचनता व्यर्था स्यात् । अहरहरित्यादौ एकार्थीभावाभावेन समासामसङ्गादिति चेत् । इष्टापत्तिः । समर्थसूत्रे कथितव्यपेक्षावादिमते परं तदिति द्रष्टव्यम् । अत एव सेयं युगपदधिकरणवचनता दुःखा च दुरुप
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy