SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८८ वैयाकरणभूषणे तम् । आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने वाचस्तच निवारितं प्रसरणं सोचिते दोलते" इत्यादौ प्रच्छनकान्तविषयाकृतविशेषबोधवच्चोपपत्तेः । ओंकारस्थले चोमित्येकाक्षरं • ब्रह्मति भगवद्वचनात्समुदायशक्तिवदक्षरगतैकत्वस्यापि सिः । प्रत्येकवर्णानामेवाभावात्क्वानर्थक्यापादनशङ्का । न च समुदायैक्यमादायैकत्वं तापिनीयाथर्वशिखादिश्रुतौ "ततोभूत्रवृदोङ्कारो योव्यक्तप्रभवः स्वराडि" त्युपक्रम्य "तस्य ह्यासंस्त्रयो वर्णा अकाराया भृगूदह । धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तय" इति भागवताबनेकपुराणादौ च वर्णत्रयस्य प्रतिपादितत्वादिति वाच्यम् । वर्णसमाम्नायादौ ऋषिभिर्यजनस्यार्धमात्रिकत्वाभिधानान्मकारेण प्रश्नोपनिषदुक्तमात्रात्रयस्यार्थर्वशिखोक्तसा. र्धमात्रात्रयस्य प्रणवस्यार्धमातायामपि नादविन्दुकलाविकलेति भेदस्य चानेकपुराणायुक्तस्यैवमप्यनुपपत्तेस्तुल्यतयोपासनार्थमेवार्धमात्रादेरिव वर्णत्रयस्यापि कल्पनपैव श्रुत्यादौ तथा वर्णनस्योपपादनीयत्वात् । तथाप्यकारोकारमकारध्वनिभिः ना. रायणशिवब्रह्ममायावच्छिन्नमेकमेवेश्वरचैतन्यमुच्यतइति न वि. रोधः । “त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरानकाराद्यैः वर्गस्त्रिभिरपि दधत्तीर्णविकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणा त्योमिति पद" मित्यप्यत एव सङ्गच्छते । तस्मान कश्चिदवयवानर्थक्ये दोषः। . यद्रा । अर्थव-त्वं क्रियावाचकत्वं च फलोपधानात्मकमेववक्तव्यम् । अत एवार्थवत्सूत्रेथवत्पदमुन्मत्तवाक्यतिव्याप्तिवारणायोति दुर्गसिंहः सङ्गच्छते । तथा च समासांतर्गतराजपदादेरस्त्वानुपूर्वी शक्ततावच्छेदिकेति न गौरवम् । समुदायशक्तिज्ञानस्यावयवशक्तिमानजन्यबोधप्रतिबन्धकत्वस्योक्तावयवे. धातुसंज्ञायतिप्र
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy