SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। १८० जातीयादिग्रहणमित्यायतिमसः । न चावत्परिभाषाया: पृथगस्वीकारे काशे कुशइत्यत्र शे इति प्रगृह्यत्वापत्तिः स्पष्टइचात्रार्थवत्परिभाषयैव निर्वाहो भाष्यइति वाच्यम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणामिति न्यायेनैवानतिप्रसङ्गे . तदारम्भस्यान्याय्यत्वात् । सास्यदेवतेत्यायपि वैश्वदेवीलादिवोधकपदार्थानुशासनमवयवद्वारा लाघवोपायतया लः कर्मणिचभावेचाकर्मकेभ्यः, अन्हः खः क्रतुसमूहे माचांष्फतद्धितः,वृद्धाच्छः, दनष्ठा, काला, कलेढेक् इत्यादिवन विरुध्यते । नहि लकारठगादिभ्यः कदापि बोधः किं तु तिबीनायनीयादिभिः। एतदेवादाय प्रयोगोपाधीत्याद्याग्रिमादिविचारोपि प्रकृतिप्र. त्यययोः प्रत्ययार्थप्राधान्यमिति व्युत्पत्तिरप्येवमेव । समानानुपूर्वीकस्य तस्यैव राजपदस्य धातोश्च वृत्तेः प्रागानुपूर्वीशक्तता. वच्छेदिका आसीदित्यर्थवन्त्वम् । तद्दशायां च तदभावानायेवत्वमिति को विरोधः । यथैकस्यैव मणे: सिद्धेश्चोत्तेजकोषधसिषाधयिषादशायां न प्रतिबन्धकत्वं तदभावदशायां च प्र. तिबन्धकत्वं सर्वसिद्धम् । पङ्कजपदपि समासशक्तिवादिभिश्चित्रगुः राजपुरुष इत्यादिवद्योगार्थमन्तर्भाव्यैव साभ्युपेयतइति न योगार्थबोधानुपपत्तियोगरूट्युच्छेदो वा । वृक्षविशेषे शक्त अश्वकर्णपदे पुनर्योगार्थस्य शक्तावननुप्रवशात्केवलरूढतैव । अत एव सत्यासक्तमना इत्यादावप्यनेकार्थशक्तसमासादनेकार्थबोधान्नानुपपत्तिगन्धोपि । न चैवमपि व्युत्पन्नानां श्वेतो धावतीत्यादौ कुक्चुर इतो धावति शुभ्रो वा तथेत्यर्थद्वयवोधो न स्यादिति वाच्यम् । प्रत्यहं विश्वेश्वरो दृश्यते इत्यत्र काका प्र. नादर्शनोपहासानां तथात्ववत् "द्वारोपान्तनिरन्तरे माय तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादि.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy