SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयो। १८६ च्छेदकलाघवानुरोधेनैकदेशोथैवानेव । अत एव कृत्तद्धितवि. घिसूत्रेष्वर्थग्रहणं प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यामिति कृदादौ सकलासिद्धौ व्युत्पत्तिः । राजादिपदे समासात्पूर्व नामत्वाधर्थमर्थवत्वं समासोत्तरमनर्थकत्वमिति पक्तेत्यादौ प्रत्ययोत्पत्तये धातुत्वमानेतुं क्रियावाचकत्वरूपार्थवत्त्वम् । प्रत्ययोत्पत्तौ वृत्तावनर्थकत्वमिति च विरुद्धकल्पनाभावः। पङ्कजपदादौ योगरूढिभ्यां तत्तच्छक्तिग्रहशालिनांबोधः "सत्यासक्तमनाः प्रवृद्धनरकच्छेदी द्विजेन्द्राश्रयो यश्चानेकमुखोद्भवाश्रयतनुः श्रीयंत्र संराजते । योगगां च सदा बिभर्ति स शिवो यः कामदेहाश्रयः सद्यः साम्यमयं भयातु भवतां कृष्णेन रुद्रेण वे"ति श्लेषप्राणकाव्ये बोधः ।ओं कारे अकारोकारमका वैष्णुत्वशिवत्वब्रह्मत्वादिना बोधस्तदर्थकाथर्वशिखाद्युपनिषत्पुराणादीनां प्रामाण्यं च सङ्गच्छते। अन्यथा सकलैतद्विप्लवो योगरूदुयच्छेदश्च स्यात् । नन्वेवं पाचयति देवदत्त इत्यादिणिजन्ते णिचः पूर्वभागस्यार्थवत्त्वे तदर्थभावनायाः वर्तमानत्वादिविवक्षायां मध्ये तिबादिकं स्यात् । भस्माकमा. नर्थक्यादधातुत्वान्न प्रसङ्ग इति चेन्न । प्रत्ययः परश्चति सूत्राभ्यां प्रत्ययः पर एव न केवलो व्यस्तो मध्ये वा भवतीति नियमान्मध्ये तिकुत्पत्तौ णिचः परत्वहान्यापत्या तदसम्भवात् । विधानसमये धात्वव्यवधानसत्वेप्यग्रे तद्वाधे ऽकृतव्यूहपरिभाष- . या पूर्वमेवाप्रवृत्तेः । विशिष्य विधानात्तु बहुचः पुरस्तादकचः प्रकृतिमध्ये शबादेः प्रकृतिप्रत्यययोर्मध्यउत्पत्तिर्नान्यत्र । अत एव पक्तत्यादौ धातुत्वसत्वेपि मध्ये न तिङ् । किं च । कोः कित्करणाज्ज्ञापकादानर्थक्येपि कदादाविवात्रापि धातुकार्य तवापि दुबारमेव । शमादिपदे च प्रत्येकवर्णशक्तिग्रहवतां पदार्थोपस्थितिस्तात्पर्ये सति वाक्यार्थबोधश्चेष्ट एवेति न कश्चि
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy