SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। मात्रेतिरिक्तशक्तेर्भवसिद्धान्तसिद्धत्वाद्यवस्थापयिष्यमाणत्वाच कृत्तद्धितान्तर्गते धातुपत्यययोरप्यनर्थकतापत्तिः । तथा च कर्तरि कृत् सास्यदेवतेत्यादेरनर्थकतापत्तिः । "प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम् । धर्ममात्रं वाच्य"मिति । यद्वा 'शब्दपरादमी' इत्यादिवक्ष्यमाणं मूलं च विरुद्धं स्यात् । केवलक्त. क्तवत्वोरनर्थकत्वाविशेषात्प्रौढ इत्यत्रेव प्रोढवानित्यत्रापि वृद्धेः तीयजातीययोरुभयोरनर्थकत्वात्पटुजातीयस्मा इति सर्वनामत्वस्य यत्रोरनर्थकत्वाट्टिड्ढाणनिति ङीपा द्वैपीदैवीबाहीतिप्रयोगस्य तवाप्यापत्तिश्च तुल्या । राजादिपदशक्ताववच्छेदकगौरवं च तवातिरिच्यते । सार्वधातुकार्धधातुकयोरिति गुणः मृजेर्वृद्धिरिति वृद्धिः पानाध्मास्थानादाणदृश्यर्तिसर्तिशदसदा पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदा इत्याद्यादेशविधानादिकं चार्थवति तिङन्ते धातौ चरितार्थ कृदादौ न प्रवर्तेते. ति च तवाधिकमनिष्टम् । तथा च जय जय भवन् मायः पिबः धम इत्यादिकं न सिध्येत् । यत्तु वृषण्वस्वश्वयोरिति वार्तिकेन वृषणश्च वृषण्वसुरित्यत्र भसंज्ञाविधानाज्ज्ञापकानलोपविधावर्थवद्हणपरिभाषाप्रवृत्त्यसम्भवः । अनेन हि भत्वं सम्पाद्यते न पदत्वं व्युदस्य पदान्तत्वाभावाबलोपो वार्यते । सोयमर्थवत्परिभाषयैव निर्वाहे व्यर्थः स्यात् । तथा च न समासे नलोपा. प्रसक्तिः । वृत्तिमात्रे ऽतिरिक्तशक्तावपि प्रत्ययानां विधानाय कल्पितमर्थमादायानुशासनमग्रिमत्वाद्यर्थविचारोर्थवत्परिभाषामवृत्त्या वृध्यायतिप्रसङ्गश्च न दुर्वारः । शक्ततावच्छेदकगौरवं चागत्या पक्षतावदाश्रयणीयम् । त्रसिधिधृषिक्षिपेः क्नुरिति क्नोः कित्करणाज्ज्ञापकादानर्थक्येपि धातुकार्यस्य ज्ञापनान गुणवदिपिवाद्यादेशानामप्रवृत्तिः । गुणनिषेधार्थ हि कित्करणं गुणा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy