SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १७६ वैयाकरणभूषणे तस्माद्वयपेक्षापले पूर्वोत्तरपदयोरर्थसत्वात्पूर्वपदार्थप्रधान इत्यादिव्यवस्था अव्याप्त्यतिव्याप्त्यादिदोषदुष्टापि नासम्भविनीत्याशङ्कां मनसिकृत्याह ॥ जहत्त्वार्थाजहत्स्वार्थे वे वृत्ती ते पुनास्त्रिधा । भेदः संसर्ग उभयं चेति वाच्यव्यवस्थितेः॥३०॥ यद्यप्यत्र महाभाष्ये नाना पक्षा निरूपिताः । तथाप्यत्रैव विश्रान्तिस्तेषामिति विभाव्यते ॥ कैयटो हरदत्तश्च यां व्यवस्यां प्रचक्रतुः । सा न्यायभाष्यानुगुणा नेत्युपेक्ष्येति विद्महे ।। तथाहि । यद्यपि समर्थसूत्रे भाष्यकारैरनेके पक्षा निरूपिता इति भाति । तथापि तद्विवेके सति जहत्स्वार्थाजहत्स्वार्थपक्षयोरेव पर्यवसानं लभ्यते । तद्यथा । इथं तावद्भाष्ये पक्षसृष्टिः प्रतीयते । समासादावेकार्थीभावः विग्रहवाक्ये च व्यपेक्षेत्येकः पक्षः । अथ ये वृत्तिं वर्तयन्ति इत्यारभ्य जहत्स्वार्थाऽजहत्स्वार्थी चेति पक्षभेदेन मतान्तरम् । समासादावपि वाक्यवद्वयपेक्षैव सामयमिति चापरं मतमिति । तत्रेत्थं कैयटेन निर्णीतम् । नित्यशाब्दिकमते राजपुरुषादीनि वाक्यविषयपदसरूपावयवानि वर्णवदनर्थकोपलभ्यमानावयवानि तत्त्वतो निरवयवान्येव केवलमसत्यप्रक्रियाश्रयेणावाख्यायन्ते नातस्तत्र जहदजहत्पक्षावतारः । अतस्तत्रैका भाव एव । वाक्ये तु व्यपेक्षा । परस्पराकाङ्क्षा च व्यपेक्षेति प्रथमः पक्षः । कार्यशान्दिकानां वाक्याद्वि कल्पेन वृत्तिनिष्पत्तिं मन्यमानानां मते जहत्स्वार्थाजहत्स्वार्थपक्षविकल्पः । अथ ये वृत्तिं वर्तयन्ति किं तआहुरित्यादिना भाष्यात्तथैव स्पष्टत्वात् । तत्र जहत्स्वार्था नाम राज्ञो विशेषणान्वयसहिष्णुतारूपमाधान्यत्याग एव । तद्यथा । तक्षा राज
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy