SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः । · कर्मणि प्रवर्त्तमानः स्वं तक्षकर्म जहाति न हिक्तिश्वासतेस्थादिना दृष्टान्तेन तथैव भाष्ये व्युत्पादितत्वात् । एकार्थीभावस्त्वत्र पक्षे राजपदेन राजपुरुषयोरुपादान सिध्यर्थमङ्गीक्रियते । तदनभ्युपगमे राज्ञि विशेषणान्वयापत्तेः । अजहत्स्वार्था च राज्ञांशस्यापरित्यागमात्रात् । भिक्षुकोयं द्वितीयां भिक्षां लब्ध्वा पूर्वी न जहाति सञ्चयाय प्रवर्त्तते इत्यादिभाष्येण तथैव लाभात् । अथ वा पुरुषव्यावर्त्तकत्वमात्रेण राजांशस्योपयोगाद्रान: पदं स्वार्थ जहात्येव । न चैतावता तन्निमित्तं विशेषदर्शनं निव चैते पुरुषे । नाग्निसम्बन्धजनितपाकजरूपादिनिवृत्तिर्घटेोसंयोगे निवृत्ते भवति । अथ वान्वयाद्विशेषणं भवति घृतघटश्वम्पकपुट इतीत्यादिना भाष्ये तथैव स्पष्टत्वात् । तस्माद्वृत्तिनिष्पत्तिवादिमते जहत्स्वार्थाजहस्वार्थान्तर्भावेण पक्षद्वयं स्थिम् । व्यपेक्षावादस्तु स्वतन्त्र एवेति । हरदत्तस्तु एकार्थी भावस्तावद्राज: पदेन राजपुरुषोपस्थापनाय पुरुषपदेनाप्युभयोपस्थापनायावश्यकः । अन्यथा राज्ञः पुरुषश्वश्चतिवद्राजपुरुषोश्वश्वेति राज्ञः पुरुषो देवदत्तस्य चेति वापतेः । नपुनर्जहत्स्वार्थवृत्तौ राजपदानर्थक्यं युक्तं पश्यामः । तथा सति राज्ञो बोजासम्भवेन राजपुरुषमानयेत्यत्र पुरुषपात्रस्यानयनप्रसङ्गः । न च राज्ञः प्रतीतये समासे शक्तिः कल्प्या, मानाभावात् नापि राजपदं वाक्ये व्युत्पन्नं पुनः समासे व्युत्पत्तिमपेक्षते । न वा राजबोधाय समासे व्युत्पत्तिग्रहोपेक्ष्यते । तस्मादजहत्स्वार्थेव वृत्तिः । अर्थाभिधानप्रकार भेद इत्येव साम्प्रतम् । एवं चैकार्थीभाववद्वयपेक्षापि समासादौ । अन्यथैकार्थीभावमात्रमाश्रित्य द्रष्टुं गतः कृष्णं श्रितो गुरुकुलं विष्णुमित्र इत्यादौ समासप्रसङ्गः । तस्मादेकार्थी भावो, व्यपेक्षा, अजहत्स्वार्था, चेति श्रयं समुच्चितं परिभाषावृत्तिहेतुः । न २३
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy