________________
समासशक्तिनिर्णयः । १७३ द्राजार्थस्य बहुत्वान्वयः । तस्य व्यासज्यवृत्तित्वात् । न चं तद्राजान्तेन बहुत्वोक्तौ लुगित्येवार्थोस्त्विति शङ्कयम् । प्रियो वाङ्गो येषामित्यर्थे प्रियवाना इत्यत्रापि प्रसङ्गादिति । न च कर्मधारयेप्यभेदान्वयरूपसामर्थ्यसत्त्वाद् द्वन्द्वाविशेषस्तस्य स्यादिति वाच्यम् । समस्यमानपदैरेकविषयताशालिबोधजनने द्वन्द्वस्तदर्थमेव युगपदधिकरणवचनतास्वीकारादिति विशेषसम्भवात् । न चैवमपि रामकृष्णावित्यादौ विरूपाणामपि समानार्थानामित्येकशेषापत्तिः । विभक्त्युत्पत्तेः पूर्व समानार्थतायामिष्टत्वात । तदुत्तरमेकशेषाप्रसङ्गात् । पूर्वमेवैकशेष इति सिद्धान्तात् । तथा च विवक्षयोभयथापि प्रयोगो युक्त एव । पितरावित्यादौ ता. त्पर्यानुरोधेनवार्थविशेषनिर्णयस्य वाच्यत्वात् । तथा च विव. क्षया व्यवस्था आश्रयणीया चार्थे द्वन्द्व इति न्यासपक्षेपि विभक्त्युत्पत्तेः पूर्व सहभावविवक्षणे एकशेषस्तदुत्तरं विवक्षणे च द्वन्द्र इति वाच्यमेव । नन्वेवं सति एकशेषे द्विवचनबहुवचना. न्तेन विग्रहप्रदर्शनमपि शक्यं वक्तुम् । परं त्वेकवचनान्तेनैव त. त्प्रदर्शनमयुक्तम् । प्रागुक्तन्यायेन द्विवचनादेरपि न्यायमाप्तत्वादिति कथं द्विवचनान्तेन तत्पदर्शनं निषिद्धमिति चेत । उच्यते । नहि येषामेकशेषस्तेषामेव तथाविधानां विग्रहे प्रवेशः तस्य नित्यत्वात् । किं तु यदा युगपद्वाचित्वाविवक्षणाकशेषस्तदा तद्बोधकचकारमादाय सः। तथा च तत्र न द्विवचनप्राप्तिरिति वित्रियमाणे तथा दर्शनादेव तत्रापि युगपद्वाचिताविवक्षां कृत्वा तथा विग्रहो वाच्यस्तत्र चोक्तदोषो युक्त इति । अथ विभक्त्युत्पत्तेः प्राक् सहभावविवक्षायामेवैकशेष इत्यभ्युपगमे तदा सहभावाविवक्षणात्प्रत्येकं विभक्त्युत्पत्तौ ततस्तद्विवक्षणे द्वन्द्वापत्ती घटघटौ घटघटघटा इत्यापत्तिदुर्वारा। न चाकृतव्यूहपरिभाषया