SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७२ वैयाकरणभूषणे युक्तम् । एवं हि कृतः सर्वो मृत्तिकयेत्यादौ कृतः सर्वमृत्तिकइति समासापत्तेः । असूर्यम्पश्या इत्यादरसमर्थसमासत्वोच्छेदनसङ्गाच । न चैकस्यां क्रियायां कर्मत्वाघेकरूपेणान्वयित्वमेव सामर्थ्य वाच्यम् । अथ वा चार्थेद्वन्द्व इति विध्यवयायासामर्थ्यपि स स्यादिति वाच्यम् । एवं हि बटो भिक्षामट गां चानयेत्यादा "वहरहर्नयमानो गामश्व पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इच दुर्मद" इत्यादौ चातिप्रसङ्ग इत्याशङ्कय युगपदधिकरणवचने द्वन्द्व इति व्युत्पादितं भाष्ये । तथा च परस्परमभेदान्वयरूपं सामर्थ्य मेवातिप्रसङ्गपरीहारव्याजेन भा. ज्यकारैः समर्थितम् । एकार्थीभावपक्षे च तस्मिन्नेव समास. इति समर्थसूत्राल्लब्धत्वादहरहरित्यादौ समासाप्रसङ्गायुगपदधिकरणवचनताव्युत्पादनवैयापत्तेः । अधिकरणं वर्तिपदार्थों रामकृष्णौ, तयोयुगपद्वचने पदद्वयेनाभिधाने द्वन्दो भवतीति तदर्थः । ननु सेयं युगपदधिकरणवचनता दुःखा च दुरुपपादा चेति भाष्यएव सा दूषितेति चेत् । सत्यम् । विग्रहे सा दुरुपपादेति तदभिप्रायस्य शब्दकौस्तुभादौ व्युत्पादितत्वात् । विग्रहे खल्वपि युगपदधिकरणवचनता दृश्यते धवौ च खदिरौ चेत्सेर विग्रह इत्यादि, ततः पूर्व भाष्ये व्युत्पादितत्वात्तथैव युक्तत्वाव । अत एव धवौ च खदिरौ चेति न विग्रहः । प्रक्रियादशायां प्रथमप्रवृत्तस्यैकवचनस्य त्यागायोगात् । अन्यथा समासदर्शनानुरोधेन विग्रहकरणे षष्ठीतत्पुरुषोच्छेदः स्यात् । तथा च षष्ट्या अलुग्विधायकानां तत्स्वरादीनां चोच्छेदापत्तिरित्येवोक्तं शब्दकौस्तुभे । अत एव तद्राजस्य बहुषु तेनैवास्त्रियामित्यनेनापत्यकृतबहुत्वाविवक्षायां तद्राजस्य लुग्विधीयमानो ऽङ्गवकालिका इत्यादौ सिम्यति । नहि विना युगपदधिकरणतात
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy