SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ भात्पर्यनिर्णयः । 1 Angioवस्य स्ववासनामात्रकल्पितत्वादिति । अपि चैव कृतामपि कर्तृवाचकत्वं न स्यात् । गौरवस्य साम्यात् । अथ चैत्रो गन्तेत्यत्राभेदान्वयादवश्यं कर्त्ता वाच्यस्तत्राभ्युपगन्तव्यः । न च चैत्रो गच्छतीति गम्श्यत्राप्याश्रयतया कृतेश्चैत्रान्वयादेत्वसिद्धिः । समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेः । reasure एकपदोत्तरविभक्तिविरुद्ध विभक्तिमत्पदजन्योपस्थितेर्हेतुत्वाच्च । चैत्रो गन्तेतिवच्चैत्रे गन्तेत्यापत्तेश्चेति चेत्, अत्रोच्यते । घटो न राज्ञः सूतस्य धनं पचतितरां चैत्रः पचतिकल्पं मैल इत्यादावभेदबोधाद्भेदेन बोधदर्शनाच्चोक्तकार्यका रणभावद्वयस्यापि व्यभिचारः । न चात्रायोग्यत्वान्नान्वयः । कृत्यपि तथा सुवचत्वात् । एवं पचतिकल्पं मैत्र इत्यादावपि नामात्वयाश्रयाश्रयिभावेनान्वयः संभवत्येव । न चात्राख्यातस्य कर्तरि लक्षणा । एवं हि पक्ता गच्छतीतिवत्पचतिकल्पं गच्छ तीत्यापसे । किं चात्रैव नानाख्यातार्थयोरभेदान्वयस्य क्लृप्तत्वात्तदनुरोधाञ्चैत्रः पचतीत्यत्राभेदानुभवाच्चाख्यातस्य कर्तृवाचकत्वापची सिद्धं नः समीहितम् । न च कल्पवादेरेव कर्तरि लक्षणा, तथासत्याचार्यकल्पावाचार्यकल्पा इतिवद् द्विवचनादेरपि कर्तृत्वादिविवक्षायामापतेः । न च सुविरुद्ध तिङन्तोपस्थाप्यत्वेन कृते देवान्वय इति वाच्यम् । स्तोकं पचतीत्यादौ स्तोक पाकयोरभेदबोधानापत्तेः । तस्माद्भेदेन नामार्थप्रकारकोघे सार्थकमुनिपातजभ्यैवोपस्थितिर्हेतुरिति हेतुहेतुमद्भावादाख्यातार्थेनाभेदबोध दुर्वार इति वक्ष्यामः । यन्तु चेत्रे गन्तेति स्यादिति । तन्न | चैत्रे गच्छतीत्यस्याप्यापत्तेः । यदि चाख्यातार्थस्य प्र. थमान्तोपस्थाप्यएवान्वयस्तदात्रापि कृदर्यप्रकार कशाब्दबोधं प्रति समानाधिकरणपदजन्योपस्थितिर्विषयतया हेतुरिति कार्य
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy