SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः । करणत्वधातुत्वाधातुत्वध्वनिमयत्ववर्णमयत्वरूपविरुद्ध धर्माध्यासादभेदपक्ष एवानयोर्न युक्तः । भेदपक्षोपि न युक्तः । भूवादय इति सूत्रविरोधात् । गणपठितत्वे सति क्रियाबाचित्वं धातुत्वमिति हि तदर्थः । स चास्मिन सम्भावि तः । अनुकार्यस्य गणे पाठाभावात् । अनुकरणस्यार्थवश्वेपि क्रियावाचकत्वाभावात् । समानानुपूर्वीक शब्दमात्रतात्पर्यकत्वं तादृशशब्दमात्रवाचकत्वं वा ऽत्र मते ऽनुकरणत्वम् । शब्दशब्दवारणाय मात्रपदम् । तस्माद्धसत्तायामित्युदाहरणं पक्षद्वयं चासङ्गतमेवेति चेत् । अत्रोच्यते । आनुपूर्वीभेद एव शब्दभेदे तन्त्रम् । अत एव नानार्थत्वव्यवस्था । तथा च स्वाभिन्नशब्दमात्र तात्पर्य कोचारणविषयत्वार्थ तात्पर्य कोच्चारणविषयत्वरूपे अनुकार्यत्वानुकरणत्वे कथं विरुद्धे । कथं बा भूसत्तायामिति शब्दमात्र तात्पर्यकस्य क्रियावाचकत्वरूपं धातुत्वम् । तथा च न पर्युदासत्ववार्त्तापि । किं स्वनर्थकत्वाभ नामत्वमित्यव युक्तम् । प्रकृतिवदनुकरणमित्यतिदेशेप्यधातुत्वप्रयुक्ता संज्ञा दुर्वारैव । छांदसत्वं त्वगतिकगतिः ज्ञापकमात्रोच्छेदकरं चेति बोध्यम् । एवं च न धातुत्वा धातुत्वयोविरोधोपि । वर्णनित्यतावादिनामानुपूर्व्याः ध्वनिमात्रनिष्ठत्वात्तस्योमयत्र तुल्यत्वात् । अव्यक्तानुकरणस्थळे व्यक्तिभेदेपि भेदप्रयोज कानुपूर्वी भेदाभावाद्युक्त एवाभेद इत्यभेदवादिनां मतम् । अन्ये वित एवार्थभेदाच्छन्दभेदं च मन्वानाः शब्दार्थवाचकत्वाभ्यामनयोर्भेदमिच्छन्ति । अत्र मते गणपठितशब्दवाच्यत्वं गण-. पठितत्वमतो न भूवादिसूत्रविरोधः । अस्मिन्मते भूसत्तायामित्यत्र विभक्तिर्दुर्वारेत्यभिप्रेत्य पक्षद्वयं लक्ष्यानुसारेण स्वीकृतमाकरे इति न कश्चिद्दोष इति ध्येमम् ॥ २७ ॥ i ·
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy