SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः। घटबोषे विशेषाभावात्ताम्रार्थकेन रक्तादिपदेन तादृशबोधसम्म.. वाच्छब्दांतरात्ताबापासम्भप इत्यादेरलमकतापतेः । अस्मद्रीत्या पुनस्ताम्रपदरूपविषयवैलक्षण्याद्वैलक्षण्यमित्यवधेयमिति । यदा ज्ञानमात्रे शब्दभानमतेन व्याचक्ष्महे । अनुकार्यानुकरणयो दे अनुकार्यस्तथा प्रातिपदिकार्थः । नो चेद्भेदविवक्षा तथापि श्रो. त्रेण गृहीतसङ्गतिकघटादिभिर्वोपस्थितेर्थे पदार्थे घटादौ व इव अर्थो विशेषणीभूतघटत्वादिवदासते विशेषणत्वेनैव भासते इत्यर्थः । डित्थोयं ब्राह्मणोयमिति प्रत्यक्षहन शाब्देपि स विषयः "न सोस्ति प्रत्ययो लोके यः शन्दानुगमाइते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते" इति प्रसिद्धः। तथा च घटपदवाच्यमानयति शाब्दबोध इति भावः । अनुकरणे तु स्वातन्त्र्येणैव भानमिति विशेष इति । अत्रेदं तत्त्वम् । अनियमेन घटादेरपि प्रकारान्तरेणोपस्थितिसम्भवाच्छाब्दबोषविषयतापत्तिवारणाय वृत्त्या शब्दादुपस्थितमेव शाब्दबोधविषय इति कल्पनीयम् । शब्दस्य च नियमेन तदानीमुपस्थितिसत्त्वात्तस्यास्ताहशतया न शाब्दबोधविषयत्वानुपपत्तिः । एवं च यथाभिहितान्वयवादिनां मते वृत्तिं विनैवाकांक्षादिवशाद्वाक्यार्थस्य शान्दबोधे भानं कुब्जशक्तिवादिनां वा वृत्त्या ऽनुपस्थितस्यैव भानम् । तथा तृस्यविषयशब्दस्यापि ज्ञानसामान्यसामग्या तात्पर्याकांक्षादिव. शागौनित्या गौरनित्येत्यादौ गोत्वादेरिव स्वातन्त्र्येण विशेषणत्वेन वा भानं भवेत् । पर्वतो वन्हिमानिति शान्दानुमित्यादितस्तदैव वन्यर्थिप्रवृत्तिदर्शनासानसामान्यसामग्या एवार्थविशेषणतया . वर्तमानकालभासकपकल्पनवत्मत्यक्षशाब्दादी सर्वत्र बन्दभानानुभवाजमानसामान्यसामग्याः शब्दभासकत्व. कल्पनात् । तत्रापि विशिष्य गृहीतशक्तिकेभ्यः पदेभ्योर्थविशे
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy