SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६२ वैयाकरणभूषणे पशुकामः " " अग्निहोत्रं जुहोती" त्यादौ नामधेयत्वं व्यवस्थाप्य तस्यापि विशेषणत्वेनान्वयादुद्भिनामकेन यागेन भावयेदिति वाक्यार्थः सम्पन्न इत्युद्भिदधिकरणे मीमांसकैरुक्तं सङ्गच्छ ते । यतु मीमांसकमते ऽपि नाम्नि लक्षणैव । अन्यथा वृत्त्या Sनुपस्थितत्वेन शाब्दबोधविषयता न स्यात् । अत एव वाक्यामें भट्टपादलक्षणाभ्युपगम्यते परं तु नामनामिसम्बन्धे सर्वत्रैव सेति निरूढेति न दोष इति समादधिरे । तन्न साधीयः । उकरीत्या क्लसशक्त्यैवोपपत्तौ गौरवग्रस्तलक्षणाकल्पनानौचित्यात् । लक्षणया सर्वत्रा निर्वाहस्य प्रागुक्तत्वाच्च । किश्च । एवं हि नामतोच्छेदापतेर्द्वद्धिमिच्छतो मूलनाशन्यायापातः । गुणविधित्वे हि 'मत्वर्थलक्षणापतेर्नामधेयत्वमास्थितम् । विशिष्टविधिपक्षे हि भवेन्मत्वर्थकक्षणा || सोमादौ गत्यभावात्सा न त्वत्र गतिसम्भवा' दित्युक्तेः सा च नामधेयत्वेपि समा चेत्कुतो गुणविधित्यागः सामानाधिकरण्यानुपपत्तेर्गुणविधाविवात्रापि बीजत्वेनापेक्षणात् । नहि विना बीजं लक्षणा । साध्यत्वं द्वितीयार्थ इतिसक्त्वधिकरणे व्यवस्थापितत्वेन वाजपेयाधिकरणोक्तन्यायेनैकस्यां क्रियायां साध्यद्वया समवायात्काष्ठैस्तण्डुलं पचतीत्यादावपि मत्वर्थलक्षणाया भावश्यकत्वाभिरूढत्वानिरूढत्वे अपि समे । गुणविधौ सर्वत्र मत्वर्यलक्षणाभ्युपगमस्य मीमांसकप्रसिदेश्च । अस्मन्मते च नाम्नः शक्यतावच्छेदकत्वेन विनैव लक्षणां यागत्वादिवदुपस्थितेर्नामधेयत्वं सुसङ्गतमिति विभावयामः । अत एव च कथितपदत्वं न क्व चिद्दोष इत्यत्रो " देति सबिता ताम्रस्तान एवास्तमेति च । संपतौ च विपत्तौ च महतामेकरूपता" । अत्र ताम्रपदान्तरं विना न तादृशो बोध इति काव्यप्रकाशकारण चोक्तं छते । अत्र घटकलशपदाभ्यां • · ·
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy