SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे स्यामर्थबोधनतात्पर्ये सति तब विशेषणतया स शब्दो भासते तत्रापि घटत्वादिरूपेण विशिष्य शक्तिहवतां पदजात्युभयमकारको बोधो ऽन्येषां पूर्वोक्तमकारेणोपस्थितकेवलव्यक्तौ शक्तिप्रहाच्छुद्धतव्यक्तिविशेष्यकः केवलपदप्रकारको घटपदवाच्या कश्चिदर्य इत्याकारको बोध इति विशेषः । यदा तु न गिरागिरेति ब्रूयात् कबतीषु रथन्तरं गायति अच्छावाकीयं साम गायति रषाभ्यानोणः, ससजुषोरुः, गवित्ययमाहेत्यादौ ब्रूयात् गा. यति आहेत्यादिभिः स्थान्यर्थकषष्ठयादिभिश्चान्वययोग्यताकाक्षादिवशाच्छन्दमात्रे तात्पर्य गृह्यते तदा घटो नित्यः स्वर्गी ध्वस्त इत्यादौ विशेषणांशवच्छब्दस्वरूपमात्रं प्राधान्येन तया शक्तथा प्रतिपाद्यते । वृत्तिसत्त्वेपि तात्पर्यविरहाद शो न बो. ध्यते । लवणमात्रतात्पर्यदशायां सैन्धवशब्दादश्ववत् बुद्धो वा त्यज्यते । यत्र तूक्तानन्यथासिद्धतात्पर्यग्राहकाभावस्तत्र विशिष्योपदेशेन तथातात्पर्यमाचार्योध्यते । यया स्वरूपंशब्दस्याशब्दसंज्ञेति सूत्रेण भूसत्तायाम् अग्नेर्डक् इत्यादौ । न चार्थशक्तयैव तात्पर्यवशात्प्राधान्येन शब्दस्यापि प्रतिपादनमित्ययु. क्तम् । तत्प्रकारकव्यक्तिविशेष्यकबोधत्वस्यैव तद्वत्तिज्ञानकार्यतावच्छेदकत्वात् । अन्यथा घटो नित्य इत्यादेर्घटत्वे लक्षणा न स्यात् । प्राधान्येन बोधार्थ खलु तत्र लक्षणाश्रयणमिति वाच्यम् । तत्र घटत्वत्वादिरूपेण बोधानुरोधेन लक्षणाभ्युपगमाव । अन्यथा घटत्वनिर्विकल्पकापत्तेश्च । अत्रानुपूर्वी विशिष्टवर्णानां पदरूपतया केवलतदुपस्थितावपि आनुपूर्व्या अवच्छेदकत्वेन भानामोक्तदोषः विशेष्यव्यक्तयंशाभानात्पदस्य विशेषणत्वं नास्तीति प्राधान्यमप्यायातम् । मोषवादिभिर्नैयायिकैः प्रमेयत्वप्रकारकसकलानुभवात्समुष्टाविशेषणकव्यक्तिमात्रस्मरणा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy