SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः। लादिपदानामस्मदादीन् प्रत्यकोषकत्त्वमसाश्च । नलत्वादिल. पेण शक्तिग्राहकभावात्तेन रूपेण बोधकत्वासम्भवात् । न चातीतनलादिभाविचैत्रादिवर्तमानप्रसिद्धासनिकृष्टवस्तुगोचराःसं. स्कारा अनादयो धारारूपेण विशिष्य बोधान्यथानुपपच्या करुप्यन्तइति नैयायिकनव्यकल्पनं युक्तम् । हेत्वसिद्धः । अन्ययोक्तप्रश्नायुच्छेदप्रसङ्गात् । किं च देशान्तरगतं प्रसिद्ध चैत्र काश्यां शृण्वतां विशिष्यागृहीतसङ्गतिकानामपि नलयुधिष्ठिरादिपदादिवरोधानुभवात्तदनुरोधेनानादिसंस्काराद्विशिष्य शक्तिग्रहसत्त्वाभ्युपगमे तेषामेव कालान्तरे विश्वेश्वरमन्दिरे तं पश्यतां चैत्रोत्र नास्तीति वाक्याबोधो न स्यात् । स्याद्वा विशिष्य गृहीतसङ्गातिकानां तत्र पश्यतामन्येषाम् । विश्वेश्वरदेवालयत्वं धर्मितावच्छेदकीकृत्य चैत्रत्वावच्छिन्नप्रतियोगिताकाभाववत्ताज्ञानं प्रति तदेव धर्मितावच्छेदकीकृत्त्य चैत्रत्वप्रकारकतद्वत्ता. धियः प्रतिबन्धकत्वाभ्युपगमस्य सर्वसिद्धत्वात् । विशिष्य गृहीतसङ्गतिकानामिव तदर्शनात्पदस्मरणं च स्यात् । तदुक्तम् । “यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन्संज्ञा स्मारयितुं क्षम" इति । चैत्रोस्ति न वे. तिसंशयश्च न स्यादित्यादि भावप्रत्ययार्थनिरूपणे वक्ष्यते । तथा च विशेषरूपेण बोधाभावादेव सर्वसङ्गम इति सिद्धा हेत्व. सिद्धिः । तथा च घटचैत्रादिपदानां घटत्वचैत्रत्वादिजातिवच्छक्तिसम्बन्धेन पदमपि शक्यतावच्छेदकत्वाच्छाब्दबोधे भासते । तत्र घटत्वादिजातिवच्छब्दांशे न वृत्तिविषयत्वं कल्प्यम् । मानाभावात् । आश्रयत्वेनैव तत्कार्यसिद्धेः। तथा च सम्बन्धस्योभयनिरूप्यत्वेन सम्बन्धिद्वयोपस्थापकत्वाविशेषाद्धटत्वाधव. च्छिन्नशक्तयैव घटादिवच्छब्दस्यापि तयैव वृत्त्योपस्थिती स.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy