SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः । १५७ च समनियत जात्यभ्युपगावदोषापि न । लौकिक पुंस्त्वादौ पृथ:क् शक्तयस्वीकारेण लाघवं चेति युक्तः पन्थाः प्रतिभाति । चतुष्कमिति । सङ्ख्यासहितं त्रिकमित्यर्थः । पञ्चकं कारकसहितं चतुष्कमित्यर्थः । यद्यपि लिङ्गादीनां त्रयाणामन्वयव्यतिरेकादिभ्यः प्रत्ययवाच्यता युक्ता । तथापि प्रत्ययवर्जिते दधि पश्येत्यादौ तत्प्रतीतेर्लिङ्गानुशासनस्य प्रकृतावेव दर्शनाश्च प्रकृतेरपि तत्र शक्तिः कल्प्यते । तथा च यस्यैव वाचकताग्रहस्तत एव तेषामुपस्थितिः । सम्भेदे चोभयतोपि । अत एव "वाचिका द्योतिवा वा स्युर्द्वित्वादीनां विभक्तय" इति वाक्यपदी यं सङ्गच्छते । नन्वेवं नामार्थप्रकार कशाब्दबोधं प्रति सुबादिजन्योपस्थितेर्हेतुत्वमित्यादिकं विलीयेतेति चेन्न । विभक्तिद्योत्यार्थमादायोपपत्तेः । नैतत्रिमुनिसम्मतमिति भ्रमं निराचष्टे । शास्त्रेइति । सरूपसूत्रादौ ।। २५ ।। स्थलविशेषे षोढापि प्रातिपदिकार्थ इत्याह ॥ शब्दोपि यदि भेदेन विवक्षा स्यात्तदा तथा । नोचेच्छ्रोत्रादिभिः सिद्धोप्य सावर्थेव भासते २६ शब्दस्ता वच्छाब्दज्ञानविषय इत्यनुभवसिद्धम् । “विषयस्वमनादृत्य शब्दैनार्थः प्रकाश्यत" इति वाक्यपदीयेनुभवप्रदर्शनात् । गामुच्चारयेत्यादावर्थोच्चारणासम्भवेन विना शब्दविषयं शाब्दबोधासङ्गतिश्चेति तत्रापि वृत्तिर्वाच्या । न च लक्षणया निर्वाहः । निरूढलक्षणायाः शक्तयनतिरेकात् । जबगडद शित्यादौ शक्याग्रहेण तत्सम्बन्धरूपलक्षणाया अग्रहाच ! अगृहीतायाश्च वृत्तेरनुपयोगात् । शक्तिभ्रमस्यापि वक्ष्यमा - परीत्यैवासम्भवात् । एवं भाषाशब्दानामप्यनुकरणे प्रतीयमान
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy