SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः । .. १५५ दत्वेन क्व चिदारोप इत्यभ्युपगमः । न च पशुशब्दस्य नित्यपुंस्त्वात्पदार्थादिशब्दोदितलिङ्गवत्साधारण्यात्कथं स्त्रीपशुन्यावृत्तिरिति वाच्यम् । पश्वा न तायुं गुहा चरन्तमिति ऋग्वेदे दर्शनात्पशुनेति पुंस्त्वस्य परिच्छेदकत्वान्न पशुस्त्रिया याग इति मीमांसायां निर्णीतत्वाच्च तस्य नित्यपुंस्त्वाभावनिर्णयात् । तथा निर्णयेपि वा नानुपपत्तिः। छागोवा मन्त्रवर्णादिति षष्ठान्त्याधिकरणन्यायेन छागव्यक्तिविशेषस्येव पुंस्त्वस्यापि मन्त्रवर्णत एव लाभात् । छागस्य वपाया इति मन्त्रे छागस्यति पठितस्य डा. गभिन्नइव स्त्रियामसम्भवात् । यत्र तु विधौ सन्दिग्धं तत्रापि सन्दिग्धे तु वाक्यशेषादित्यधिकरणेन निर्णयः । सङ्ख्यादिवत् । यथा “सारस्वतौ मेषौ भवत" इत्यत्र तद्धितप्रकृतिः स्त्रीलिङ्गः पुल्लिङ्गो वेति सरस्वत्यै चरुं सरस्वते चरुमिति द्वयोरपि दर्शनात्सन्देहे " एतद्वै दैव्यं मिथुन" मित्यर्थवादादेकशेषेण द्वयोहणमवधार्यते । आग्नेयोटाकपालो ऽमावास्यायो पौर्णमास्यां वेति वाक्ये तद्धितप्रकृतिरेकवचनान्तो बहुवचनान्तो वेति अग्नये कृत्तिकाभ्यस्ते अस्मा अग्नयो द्रविणं द. वेत्यादौ द्वयोरपि दर्शनात्सन्देहे सोनये ध्रियस्वति वा. क्यशेषादेकवचननिर्णयः । नन्वस्तु तावदेव, तथापि सर्व नामनिष्ठलिङ्गस्य चेतनाचेतनस्त्रीपुंससाधारणत्वात्मास्मा अनि भरतति अध्रिगुऔषस्य सारस्वत्यां मेष्यामपि प्रवृत्तिः स्यात् । न चेष्टापत्तिः । लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वादित्यूहलक्षणाधिकरणे पशूनां समानविधानत्वेपि पुंलिङ्गनिर्देशान्न तत्र मन्त्र इत्युक्तेः । लौकिकलिङ्गवाच्यत्वपक्षे च नानुपपत्तिः मुख्यत्वे गौणताया अन्याय्यत्वेनारोपस्याप्यसम्भवानियमसम्भवात् । न च सामान्ये नपुंसकमित्यनुशिष्टम
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy