SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १५४ वैयाकरणभूषणे विवेकः । वस्तुतस्तु भाष्यमते लिङ्ग शब्दनिष्ठमेव ।पुल्लिङ्गः शब्द इत्यादिव्यवहारात् । पुल्लिङ्गवाचकत्वात्तथेति चेत् । तार्ह घटः शब्दे इत्यपि स्यात् । आरोपे सति निमित्तानुसरणमित्यादेरतिगौरवात् । अर्थनिष्ठत्वे तटस्तटीतटमित्यादेरात्माब्रह्मेत्यादेरनुपपत्तेरुक्तत्वाच्च । छाग्या यागप्रसङ्गाच्च । यत्तु छागादिशब्दा. नां पुंस्येव नियतप्रयोगानुरोधेन लौकिकपुंस्त्वविशिष्टे शास्त्रीये शक्तेस्तद्विवक्षयानतिप्रसङ्ग इति । तन । एवमप्यचेतनवाचकानां मध्वादिशब्दानां माक्षिकादौ पुन्नपुंसकत्वं वसन्तादौ शुद्धपुंस्त्वमिति व्यवस्था न स्यात् । एवं "स्त्रो ज्ञातावात्मनि स्वन्त्रिष्वा. त्मीये स्वोस्त्रियां धन" इत्यादिलिङ्गनियमोच्छेदापत्तिः । अत्र प्रकारान्तरानुसरणे तेनैवोपपत्तेलौकिकलिङ्गे वाच्यत्वकल्पनं मुधैः च, शब्दनिष्ठत्वे च नानुपपत्तिलेशोपि । तथाहि । हस्वत्वदीर्घत्वोदात्तत्वानुदात्तत्ववत् । स्त्रीत्वपुंस्त्वादिविरुद्धधर्मवत्त्वाच्छब्दा भियन्ते । आनुपूर्वीसाम्यस्यापि तद्वदेवार्थभेदाच्छब्दभेदवादिनो मतइव चोपपत्तेः । केषां चिल्लिङ्गानुशासनेनैकलिङ्गत्वव्यवहारश्च समानानुपूर्वीकत्वेन तेषां तन्त्रेणानुकरणादुपपद्यते । एवं च तटादिशब्देषु समानानुपूर्वी केषु लिङ्गत्रयं छागादिषभयं पदार्थादिष्वेकमस्तीति सर्वत्र मुख्य एव लिङ्गप्रयोगः । तत्र पुंस्त्वे नाभावः स्त्रीत्वादौ टाबादि द्योतकम् । तच्च शब्दनिष्ठमपि शब्दवाच्यमर्थपरिच्छेदकत्वेनान्वेति । लिङ्गविशेषविशिष्टस्यैपार्थविशेषवाचकताया लिङ्गानुशासनशास्त्रसिद्धत्वात्स्वाश्रयवाच्यत्वसम्बन्धेन लिङ्गस्यार्थव्यावर्तकत्वोपपत्तेः । अत एव प्रयोगनियमोपपत्तिः । यद्वा । शब्दनिष्ठमेवार्थविशेषनिर्णायकमस्तु बहुव्रीवादिस्वर इवान्यपदार्थादेः । एवं च पशुनेत्यत्रापि पुंस्त्वस्य परिच्छेदकत्वान्न पशुस्त्रिया यागप्रसङ्गः । न वा तेषां विरु
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy