________________
नामार्थनिर्णयः ।
१५१
भावात् । अन्यथा गोपदस्य शक्तिग्रहसमये गोत्वस्येव धर्मान्तरस्याप्युपस्थितौ ततस्तत्पदात्तद्धर्मस्याशक्यस्याप्युपस्थितौ शाब्दबोधे भानप्रसङ्गः । घटादिपदादुपस्थितस्याकाशादेरपि शाब्देन्वयापत्तेश्चति । तस्माद्विशिष्टं शक्यम् । एकामति पक्षस्य चैकमेवान्तर्भाव्य कार्यकारणभाव इत्यभिप्रायः । तथाहि । घट इत्येताव घटत्वशक्तिज्ञानत्वेन कारणता । लाघवात् । न तु घटत्वविशिष्टशक्तिज्ञानत्वेन । शक्तिज्ञानकारणत्वे वैशिष्ट्यघटयोरवच्छेदकत्वमपेक्ष्य घटत्वमात्रस्यैव तत्त्वौचित्यात् । तथा च त्वया तत्कारणतायामवच्छेदकतया घटस्तद्वैशिष्ट्यं चाधिकं प्रवेश्यते इति गौरवम् । अयं च जातिशक्तिवादो गुरूणामपि सम्मतः ॥ अन्यथा केवलजातावेव शक्त्यभ्युपगमे कार्यान्विते पदशक्तिवादस्तेषां न सिध्येत् | व्यक्तीनामेव कार्यान्वितत्वात् । यत्तु घटवशक्तिज्ञानत्वेन घट इत्येतादृशबोधे कारणतायां घटोस्तीत्यत्रेव घटत्वमस्तीत्यत्रापि तथा बोधापत्तिरिति विशिष्टशक्तिज्ञानत्वेन हेतुतेति । तन्तुच्छम् । घटत्वप्रकारक घटविशेष्यकशाब्दबोधं प्र ति घटत्वांशे ऽन्यामकारकघटत्वशक्तिज्ञानत्वेन हेतुत्वाभ्युगमात् । तत्र शुद्धस्याभिलापासम्भवात् घटत्वशब्देनाभिधानं कृतम् । अत एव घटत्वशक्तिज्ञानत्वेन हेतुत्वमते घटत्वत्वप्रवेशा गौरवमिति प्रत्युक्तम् । वस्तुतो निरवच्छिन्नप्रकारतासम्बन्धेन घटत्वशक्तिज्ञानत्वेनैव तत्र हेतुत्वम् । घटत्वमस्तीत्यत्र च न घटत्वं प्रकार इति दोषः । तस्माच्छक्तिर्विशिष्टएव । कार्यकारणभावः पुनरुपदर्शितरीत्यैवेत्यवधेयम् । उक्तं हि भाष्ये । नाकृतिपदार्थस्य द्रव्यं न पदार्थ इति । अत एव द्विकमिति पक्षेणाविरोधः । अन्यथान्यतरस्याप्रामाण्यापत्तेः । विरोधात् । तदाहुः । 'कोहि मीमांसको ब्रूयाद्विरोधे वाक्ययोर्मिंथः । एकं प्रमाणमित