SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे घे भासते अतो जातिप्रकारकबोषजनकस्तदवच्छिन्नशक्तिमावा जातिशब्द इति व्यवस्थावशात् न कश्चिदोषः । उक्त च भट्टपादैररुणाधिकरणे । “आनन्त्यपि हि भावानामेकं कुत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यतीति। एवं चाव्यापकस्यापि व्यापकतावच्छेदकत्ववदलक्ष्यस्य च न्या. यनये लक्ष्यतावच्छेदकत्ववदकारणत्वेपि कारणतावच्छेदकत्वबदशक्यत्वेपि शक्यतावच्छेदकत्वं सम्भवत्येव । तत्पकारक. भानमपि हस्तिमात्रादौ हस्तिपकादिसम्बन्धग्रहणात्तद्रूपेणोपस्थितिवत्ससम्बन्धिकपदार्थमात्रएव सम्बन्धग्रहणस्य विशिष्टोपस्थापकत्वात् । न्यायनयेप्याकाशादिपदानां शब्दाश्रयत्ववि. शिष्टे अशक्तत्वस्वीकारात्तस्माग्छब्दाश्रयत्वरूपेण, गङ्गायां घोष इत्यादौ तीरत्वादिना, दण्डात् घटत्वेन घटाद्दण्डत्वेन चोपस्थि. त्यर्थ तथानियमावश्यकत्वादिति सुधीभिरूह्यम् ॥ द्विकमिति । जातिव्यक्ती इत्यर्थः। अयं भावः।जातिविशिष्ट व्यक्तिः शब्दाथः सङ्केतस्य बोधकत्वस्य वा विशिष्टे एव ग्रहात् । घटत्वप्रकारकघटविशष्यकबोधे घटशक्तिज्ञानत्वेन कारणतेत्यपि न । द्रव्या. दिपदानामप्येवमापत्तौ घटपदात् द्रव्यत्वप्रकारकबोधप्रसङ्गात् । न च द्रव्यपदोपस्थितित्वेनापि तत्र हेतुत्वामति वाच्यम् । तत्पर्यायान्तरात्तथाबोधानापत्तेः । नापि द्रव्यत्वार्थकपदज्ञानत्वेन हेतुता । द्रव्यादिपदानामतथात्वेन ततोपि तथा बोधानापत्तेः । न च पदज्ञानस्य सम्बन्धिज्ञानत्वेन हेतुता । तत्र च येन रूपेणोपस्थितयोः सम्बन्धग्रहस्तेन रूपेणोपस्थापकत्वनियमाद्वादिपदानां गोत्वरूपेणोपस्थिते तद्रहागोत्वायंशे शक्त्यग्रहेपि ते. नैव रूपेणोपस्थिति न्यथेति वाच्यम् । पदानियमेनोपस्थितावपि गोत्वादेः शान्दे विषयत्वासम्भवात् । तदंशे शक्त्य
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy