SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ मुबर्थनिर्णयः। धैषयिकमभिव्यापकं चेति । कटे आस्ते । गुरौ वसति । मोक्षे इच्छास्ति । तिलेषु तैलमिति । एतच्च संहिता. यामिति सूत्रे महाभाष्ये स्पष्टम् । अवधिः पञ्चम्यर्थः । अपादानेपञ्चमीति सूत्रात् । सच्च रुवमपायपादानमिति सूत्रादपायो विश्लेषस्तद्वत्त्वे सति तज्जनकक्रियावधिभूतमपादानमित्यर्थकादवधिभूतमिति भावः । उक्तं च पाक्यपदीये । "अपाये यदुदासीनं चलं वा याद वाचलम् । ध्रुवमेवातदाघेशात्तदपादानमुच्यते ॥ पततो रुव एवाश्चो यस्मादश्चात्पत. त्यसौ । तस्याप्यश्वस्य पतने कुड्यादि रुवामिष्यते ॥ उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मके । विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥ मेषान्तरक्रियापेक्षमवधित्वं पृथक्पृथक् । मेष. योः स्वक्रियापेक्षं कर्तृत्वं च पृथक्पृथगि,,ति । अस्यार्थः । अपाये इति सतिसप्तमी । तथा च विश्लेषवन्त्वे सति तदेतुक्रियायामुदासीनमनाश्रयः । अतदावेशात् । विश्लेषहेतुक्रियानाश्रयत्वादो एवं च विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वं कलितम् । वृक्षात्पर्ण पत्तीत्यत्र पर्णस्य तद्वारणाय सत्यन्तम् । धावतोश्वात्पततीत्यत्राश्वस्य क्रियाश्रयत्वाद्विश्लेषहेविति । कु. ड्यात्पततो ऽश्चात्पवतीत्यत्राश्वस्य तादृशक्रियाश्रयत्वोपि तत्र विरुद्धमित्याह । यस्मादश्वादिति । तद्विश्लेषहेतुक्रियानाश्रय सतीति विशेषणीयम् । तथा च पुरुषपतनहेतुक्रियानाश्रयत्वं विरुदमिति भावः । एचमश्वनिष्ठक्रियानाश्रयत्वात्कुड्यादेखि ध्रुवस्वमित्याह । तस्यापीति । ननूभयकर्मजविभागस्थले परस्स. रस्मान्मेषावपसरत इत्यादौ विभागस्यैक्याचदिश्लेषजनकक्रियानाश्रयत्वाभावादपादानत्वं न स्यादित्यत आह। उभावपीति । मेपान्तरइति । यथा निश्चलमेषादपसरदद्वितीयमेषस्थळे पसर- .
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy