SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३८ वैयाकरणभूषणे भयो व्यापारश्चार्थः । तथाहि । साधकतपकरणम् । तमपर्यः प्रकर्षः । प्रकृष्ट कारणमित्यर्थः । प्रकर्षश्च यम्मापारानन्तरमव्य. षधानेन फलोत्पत्तिस्तत्वम् । एवं च सर्वावपि कारकाणि विवक्षया करणानि । उक्तं च वाक्यपदीये । "क्रियाया परि. निष्पत्तिर्यव्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्त. दा स्मृतम् ॥ वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् । स्थाल्या पच्यतइत्येषा विवक्षा दृश्यते यत" इति । एवं चाश्रयांशो मूळे उपलक्षणमिति बोध्यम् । अथैवं सर्वेषां कारकाणां करणस्वे सर्वत्र तृतीया स्यादिति चेन्न । विवक्ष्यते पदा यत्रेत्यत एव तद्वारणात् । न चैकदा सर्वेषां विवक्षति । नन्वेवं "कर्ता शा. स्वार्थवावा"दित्युत्तरमीमांसाधिकरणे "शक्तिविपर्ययादि"तिसू. प्रेणान्तः करणस्य कर्तृत्वे करणशक्तिविपर्ययापत्तिरुक्ता न यु. ज्यतेति चेत् । सत्यम् । अभ्युच्चयमावं तदिति यथा च तक्षोभयत्यधिकरणे भाष्यादौ स्पष्टत्वादिति । अधिकरणसप्तम्या अप्याभयमात्रमर्थः । तथाहि । आधारोधिकरणम् । तच्चाश्रयत्वम् । तत्राश्रयोथैः । भाश्रयत्वं चाखण्डशक्तिरूपमवच्छेदकम् । न चाश्रयत्वमात्रेण कर्तृकर्मकरणानामाधारसंज्ञा स्याछ । स्यादेव यदि तत्संज्ञाभिः स्वविषये ऽस्या न बाधा स्यात् । नन्वेवमपि द्वितीयातृतीयासप्तमीना पर्यायवापचिरिति चेन । फलाश्रये द्वितीयायाः व्यापाराश्रये तृतीयायाः कर्त. कर्माश्रये सप्तम्या विधानात् । यद्यपि कारके इत्यधिकृत्योक्तापाः सप्तम्याः क्रियाधारे इत्यर्थो कभ्यते । तथापि कर्तृकर्मदास तदाश्रयत्वमक्षतमेवेति न दोषः । उक्तं हि वाक्यपदीये "कतृकर्मव्यवहितामसाक्षादारयस्त्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रधिकरणं स्मृत"मिति । एतच त्रिविधम् । औपश्लेषिक
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy