SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे तुरनभिधाने देवदत्तः पाचकः इत्यादौ तृतीयाद्यापत्तः । वस्तुत. स्तिस्थले कर्तुरवाच्यत्वे पचमान इत्यादौ कृत्यपि तन्न स्यात् । युक्तेस्तुल्यत्वात् । लकारस्य वाचकस्योभयत्रैकत्वात् । आदेशानां वाचकत्वे हरेव विष्णोव राममित्यादौ सर्वे सर्वपदादेशा इति न्यायेन वाक्यपदस्फोटयोः सिद्धयापत्तेः, अपसिद्धान्ता. च । न च कृति कर्तुरवाच्यत्वे इष्टापत्तिः । समानाधिकरणपातिपदिकार्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः । जञ्जभ्यमानाधिकरणोच्छेदप्रसङ्गाच्च । शानचा कर्तुरुक्तत्वाच्छक्त्या पुरुषार्थत्वमिति सिद्धान्तस्यैव सम्भवात् । तस्मादवश्यं कर्तकर्मगोर्वाच्यत्वमुपेयमिति । अत्र नैयायिकाः, कर्तृसंख्याभिधानादेव तदभिधानं वाच्यम् । न च तदन्वयनियमे मानाभावः । भावनान्वयिन्येव तदन्वयात् । संख्याभावनयोः स. मानपदोपात्तत्वेनैकान्वयित्वस्योचितत्वात् । भावनायाश्चेतराविशेषणीभूतप्रथमान्तपदोपस्थाप्यएवान्वयः । तथैवाकाङ्. क्षितत्वात् । एवं कृदादावपि कर्नाद्यभिधानादेवाभिधानव्यवस्था, अन्यतरानभिधाने तृतीयेति सूत्रार्थः । तम्मानोक्तानुपपत्तिः । कृत्प्रत्ययस्थले च कर्तुरवाच्यत्वे अभिधानव्यवस्थानापत्तेः । न च कृत्यभिधानादभिधानम् । कर्मप्रत्ययस्थलेप्यापत्तेः मित्रापकीगतं पुरमिति -लिङ्गविशेषेण सामानाधिकरण्यानापत्तेर्वा तत्र वाच्यतास्वीकारः समानाधिकरणस्यैव वि. शेषणस्य समानलिङ्गत्वात् । अन्यथा राज्ञः स्त्री इत्यादावपि प्रसङ्गात् । एवमाख्यातार्थस्य प्रथमान्तार्थे एवान्वयव्युत्पत्तेः । पक्ता तृप्यतीत्यत्र पाकानुकूला कृतिस्तृप्यतीति वोधः स्यात्तथा चानन्वयः । अतः कृति कविश्यं वाच्यः । लकारस्यैकस्य वाचकत्येपि शानजादौ कर्तरि लक्षणा न शक्तिः, येनानेकर्थता
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy