SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मुबर्थनिर्णयः। १३५ तपुरुषापेक्षया विशेषो न गम्यतइति क्रियाकृतेत्यस्यार्थो बोध्यः। औदासीन्येन । ग्रामं गच्छन् तृणं स्पृशति । कर्तुरनीप्सितम् । विषं भुङ्क्ते । संज्ञान्तरैरनाख्यातम् । अकथितमित्यर्थः । गां दोग्धि । अन्यपूर्वकम् । संज्ञान्तरमसले इत्यर्थः । क्रूरमभिक्रुध्यतीत्यादि सुधीभिरूह्यम् । ननु काष्ठं विकार्य कर्मेत्युक्तमयुक्तम् । क्रियाजन्यफलाश्रयत्वाभावादिति चेत् । अत्राहुः । प्रकृतिवि. कृत्योरभेदविवक्ष या निरूढयोत्पत्याश्रयता । यद्वा । काष्ठानि विकुर्वन्भस्म करोतीत्यर्थः । तण्डुलात् विक्लेदयनोदनं निवर्तयतीतिवत् । एतच्च द्वयर्थः पचिरिति प्रक्रम्य भाष्ये व्युत्पा. दितमिति ग्रन्थकृतः ॥ तृतीयाया अप्याश्रयोर्थः । तथाहि । करीकरणयोस्तृतीया। तत्र स्वतन्त्रः कर्ता। स्वातन्त्र्यं च धातूपातव्यापारवत्त्वम् । धातुनोक्तक्रिये नित्यम् कारके कर्तृतेष्यतइति वाक्यपदीयात् । अत एव स्थाल्यादिव्यापारस्यापिधातुनाभिधाने स्थाल्यादेः कर्तृत्वम् । स्थाली पचतीति दर्शनात् । उक्तं हि वाक्यपदीये । 'धमैरभ्युद्यतैः शब्दे नियमो न तु व. स्तुनि । कर्तृधर्मविवक्षायां शब्दात्कर्ता प्रतीयते ॥ एकस्य बु. ध्यवस्थाभिर्भेदेन परिकल्पने । कर्मत्वं करणत्वं च कर्तृत्वं चोपजायते' इति । नन्वेवं "कर्मकर्तृव्यपदेशाच्चे"ति सूत्रे 'मनोमयः प्राणशरीर' इति वाक्यस्थमनोमयस्याब्रह्मत्वे 'एतमितः प्रेत्याभिसम्भवितास्मीति प्राप्तिकर्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भगवता व्यासेन निर्णीतं कथं सगच्छताम् । एव 'मधिकं तु भेदनिर्देशादि' ति सूत्रे जगत्कारणं ब्रह्म शरीरादधिकम् । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्य' इत्यादिषु कर्तृकर्मभावभेदेन व्यपदेशादिति निर्णीतम् 'भेदव्यपदेशाच्चे' ति सूत्रे मुमुक्षोः । प्राणभृतः सकाशाद्तव्यस्य धुभ्वाद्यायतनस्य 'तमेवैकं जा..
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy