________________
. वैयाकरणभूषणे न्यपूर्वकामति ॥ निवादित्रितयस्य लक्षणमप्युक्तम् । सती वा ऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य नित्यत्वं प्रचक्षते ॥ प्रकृतेस्तु विवक्षायां विकार्य कैश्चिदन्यथा। निर्वयं च विकार्य च कर्म शास्त्रे प्रदर्शितम् । यदसज्जायते सद्वा जन्मना यत्प्रकाशते । तन्निवयं विकार्य तु द्वेषा कर्म व्यवस्थितम् ॥ प्रकृत्युच्छेदसम्भूतं किं चित्काष्ठादिभस्मवव । किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ क्रियाक. तविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्माप्य. मिति कथ्यते इति ॥ तत्र निर्वय॑म् घटं करोति । अत्र घटस्य प्रकृतिः सत्यपि न परिणामित्वेन विवक्षिता । भस्म करोतीत्यत्रापि काष्ठादिप्रकृतेरविद्यमानाया अविवक्षायां निर्वय॑तैव । एवं घटं करोतीत्यत्रापि प्रकृतेः परिणामित्वेनविवक्षायांविकार्यतैवे ति केचित् । अन्ये तु घटं करोतीति निर्वयमेव । घटादि चासदेव नैयायिकादिनये । सदिति स्वरीत्या सांख्यादिमते च । अत एष वक्ष्यति । उत्पत्तेः प्रागसद्भावो बुद्धयवस्थानिबन्धनः । अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥ कारणं कार्यभावेन यदा वा व्यवतिष्ठते । कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥ ययाः कुटिलीभावो व्यग्राणां वा समग्रता । तथैव ज. न्मरूपत्वं सतामेके प्रचक्षत इति ॥ विकार्य च द्विविधम् । प्रकृत्यु. च्छेदसम्भूतम् । प्रकृतिभूतस्यात्मन उच्छेदसम्भूतं प्राप्तम् । काष्टं भस्म करोति । गुणान्तरोत्पत्या। सुवर्ण कुण्डकं करोति । अत्र काष्ठसुवर्णयोः परिणामित्वविवक्षाविवक्षयोरपि भस्मकुण्डलरूपकमणोनित्यतैव । काष्ठसुवर्णयोस्तु विकार्यत्वमित्यवधेयम् । प्रा. प्यम् । रूपं पश्यतीति । अत्र क्रियाकृतो विशेष आवरणभङ्गरूपोस्त्येव प्रतिपत्तृगम्यश्चेति यद्यपि, तथापि प्रतिपत्तृव्यतिरि