SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ मुबर्थनिर्णयः। शवोधे घटोपस्थापकपदोत्तरविभक्तिजन्योपस्थितित्वेन हेतुत्वमिति चेन्न । व्यभिचारात् । घटः कर्मत्वमित्यत्रापि तथा व्युत्पत्तिसत्त्वे बोधस्य सर्वसिद्धत्वात् । अथ कर्मत्ववोषकपदप्राग्वचिपदज्ञानत्वेन हेतुत्वं वाच्यम् । एवं परत्रापि घटोपस्थापकपदोत्तरपदजन्यज्ञानत्वेन हेतुत्वं वाच्यमिति चेन । पदमात्रे व्युत्पन्नानां तादृशानुपूर्वीज्ञानतात्पर्यज्ञानादिमतामपि बोधापत्तेः। सामग्रीसत्त्वात् । घटः कर्मत्वमित्यत्रापि विपरीतव्युत्पत्तिरहितस्य बोधापत्तेश्च । अथ घटप्रकारककर्मत्वविशेष्यकशाब्द.. बुद्धिं प्रति घटोपस्थापकपदोत्तरकर्मत्वार्थकपदजन्यज्ञानत्वेन हे. तुत्वमिति कार्यकारणभावग्रहोपि हेतुरभ्युपेयः । तथा च नौदनः पचतीत्यत्रातिप्रसङ्गः । अनयैव रीत्या विभक्तयन्तरोपि का. र्यकारणभाव ऊहनीय इति चेत् । समानं तस्माकमपि । क. मणि शक्तयभ्युपगमात् । एतावांस्तु विशेषो यत्परेषां कर्मत्वबोधकपदघटितानुपूर्वीत्वेन प्रवेशोस्माकं पुनः कर्मबोधकपदवेन. तत्रास्माकमेव लाघवम् । न च भवन्मते आश्रयमात्रमर्थः । त.. था चाश्रयवाचकपदप्रवेश कार्यस्तथा चौदनेन पचतीत्यत्रापि कर्मविशेष्यकबोधापत्तिरिति वाच्यम् । आश्रयशब्दस्यैक्येपि, कर्मकरणादौ शक्यतावच्छेदकीभूताश्रयत्वस्य तत्तच्छक्तिरूपस्य . भिन्नस्याभ्युपगमात् अन्यथा द्वितीयादेः पर्यायतापत्तेः । अ.. स्तु वा फलाश्रयत्वरूपकर्मत्वेन कार्यकारणभावे प्रवेशो । नैता-. वता फलांशस्य द्वितीयार्थता । अशक्यत्वेपि फलस्य तनिष्ठत्वा.. नपायादित्यायुधम् । तस्मात्सिद्धमात्रं द्वितीयार्थ इति । एतच्च सम- : विमित्युक्तं वाक्यपदीये। “निर्वत्यै च विकार्य च प्राप्यं चति त्रिधामतम् । तेच्चेप्सिततमंकमं चतुर्धान्यच कल्पितम् ॥औदासीन्येन यत्माप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्य: .
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy