SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३२ वैयाकरणभूषणे रादित्याहुः । सञ्चिन्त्यम् । कर्मत्वत्वादिना बोधस्य ता. दृशव्युत्पत्यधीनत्वेनाप्रमाणत्वात् । सर्वेषां तथाननुमवात् । फलांशस्य धातुना आश्रयत्वांशस्य संसर्गतयापि लाभे विशिष्टशक्यत्वस्यान्याय्यत्वाच्च । आश्रयत्वरूपकर्मत्वस्य शक्यत्वे आश्रयत्वत्वस्यावच्छेदकत्वापत्तौ गौरवाच्च । तण्डुलः पचतीत्यायतिप्रसङ्गः परेषामपि समानः । तण्डुलपदोत्तराम्पदज्ञानत्वेन हेतुता, तण्डुलः पचतीत्यत्र तदभावानास्माकमतिमसङ्ग इति चेन्न । तण्डुलान् पचतीत्यत्राम्पदाभावेपि बोधेन व्यभिचारात्तथा हेतुहेतुमद्भावासिद्धेः । तण्डुलपदोत्तरद्वितीयाज्ञानत्वेन हेतुत्वमिति चेन्न । तण्डुलवाचकपर्यायान्तरस्थलोप बोधेन व्यभिचारात् । तण्डुलार्थकपदोत्तरकर्मत्वार्थकपदजन्योपस्थितित्वेन हेतुत्वमित्यत्र यदा तण्डुलपदान तण्डलोपास्थितिः द्वितीया च कमत्वस्य वृत्ता । एवं सोस्तीत्यत्र तण्डुलार्यकाचत्पदाचण्डुलोपस्थितिश्च वृत्ता तत्रापि त्वदुक्तसामग्रीसत्वादोधापत्तेः । नन्वेतदर्थ कर्मताविशेष्यकशान्दबुद्धित्वावच्छिवं प्रति कर्मत्ववाचकविभक्तिमाग्वार्तिपदजन्यज्ञानत्वेन हेतुत्वम् । घटं पटमित्यादिसाधारण्यात् । एवं स्वाधेयतासंसर्गावच्छिनघटमकारकशाब्दबुद्धित्वावच्छिमं प्रति घटवाचकपदोत्तरविभक्तिज्ञानत्वेन हेतुत्वं वाच्यं, घटं घटेनेत्यादिसाधारण्यात्तथा च न दोष इति चेन्न । यत्र तच्छन्दादेव घटकर्मत्वोपस्थितिस्तत्र वि. भक्तिं विनापि बोधेन व्यभिचारात् । कर्मत्वधार्मिकघटविधेयकशाब्दबोधे एव तहेतुरित चेन्न । प्रथमायाः कर्मत्वे शक्तिभ्रमदशायां बोधेन त्वदुक्तरीत्यैव व्यभिचारात् । पटपदस्य घटे शक्तिभ्रमपि बोधाच्च । अथ तारशबोधं प्रति कर्मत्वोपस्थापकविभक्तिमारवर्तिपदजन्यज्ञानत्वेन हेतुत्वं वाच्यम् । एवं ताह
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy