SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२८ मकरणभूषणे तु परसमवेतत्वमपि । तेन " भूमि श्रयावि विहगो विजहाति महीरुहम् । न तु स्वात्मान" मित्यादिप्रयोगोप्युपपद्यते । अत एव चैत्रेण ग्रामो गम्यतइति प्रयोगो न चैत्रेण चैत्र इत्यादिः । द्वितीयाकाख्यातयोस्तुल्यार्थत्वात् । इयांस्तु भेदः। द्वितीयया स्वप्रकृत्योंपेक्षया परत्वम् । आख्यातेन च स्वार्थफलाश्रयापेक्षया स्वार्थसंख्यान्वयापेक्षया वा बोध्यते । तच्च धात्वर्थक्रिया. यामन्चेति चैत्रो ग्रामं गच्छतीत्यत्र च ग्रामस्य चैत्ररूपपरनिष्ठक्रियाजन्यसंयोगरूपफलवत्त्वात्कर्मता । घटं करोतीत्यत्र च घ. टपदस्य कपाले निरूढलक्षणा । तस्य घटरूपफलशालित्वात्कर्मलं नानुपपन्नम् । कपालस्य सिद्धत्वेपि घटवन्त्वेनासिद्धत्वाक. तिविषयत्वं नानुपपन्नम् । घटं जानातीत्यादौ तद्वयवहारो भाक्त इति नेयमप्यनुपपत्तिरित्याहुः । नव्याः पुनर्न क्रियाजन्यफलशालित्वमित्याधेव कर्मत्वम् । गमेः कर्मत्वस्य पूर्वस्मिन्देशे त्यजेश्चोत्तरस्मिन् स्यन्देश्च पूर्वापरयोः प्रसङ्गात् । किं तु फलस्य पात्वर्थतावच्छेदकेत्यपि विशेषणम् । एवं च गमेः संयोवस्त्य. विभागः स्यन्देश्च न किञ्चित्फलं तथेति न दोषः । ननु प्रामं गमयति देवदत्तो यज्ञदत्तमित्यत्र प्रयोज्यकर्त्तर्यव्याप्तिः । उत्तरदेशसंयोगरूपफलस्य प्रयोजकक्रियाफलत्वाभावात् । त. दनुकूलक्रियायाः कलत्वेप्यवच्छेदकत्वाभावात् । ननु शुद्धगमधात्वर्थेवच्छेदकत्वविरहेपि सनाद्यन्तधात्वर्थप्रयोजकव्यापारं प्रति फलत्वमवच्छेदकत्वं च प्रयोज्यव्यापारस्याक्षतमेवेति चेत्, तर्हि पाचयति देवदत्तो विष्णुमित्रेणेत्यत्रापि प्रयोज्यकर्तः कर्मतापत्तौ द्वितीयापत्तरिति चेन्मैवम् । धात्वर्थफलशालित्वमिति स्वीकर्तृणां वैयाकरणानामप्येतदोषस्य दुष्परिहरत्वात् । गतिदिनत्यवसानार्थेति सूत्रेण गत्याद्यर्थानामेवेति नियमानान्येषां
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy