________________
लकारार्थनिर्णयः। १२३ स्य दुर्वचत्वात्कथं तच्छक्यम् । इष्टजनकजन्यत्वं तद्वाच्यमिति चेन्न । ब्रह्महत्यादिसकलजन्यनरकस्य नान्तरीयकत्वापतेः। इष्टव्याप्यत्वं तदिति चेन्न । तद्यदि कालिकं तन्तिरालिकश्रमादेरप्यनान्तरीयकत्वापत्तेर्विध्यर्थबाध एव । यदि दैशिकं, तदोक्तदोषः । इष्टपूर्ववर्तित्वं तदिति चेन्न । एतस्य प्रवृत्यनु. पयुक्तत्वेन विध्यर्थत्वायोगात् । एतस्य प्रवर्तकत्वे च बहुवित्त. व्ययायाससाध्ये किञ्चिदिष्टजनके प्रवृत्त्यापत्तिः । तदानीन्तन. बलवद्वेषविषयदुःखाजनकत्वमिष्टोत्पत्तीत्यस्यार्थ इति चेन्न । ता. दृशयत्किञ्चित्पुरुषीयद्वेषविषयदुःखाजनकत्वस्य कलजभक्षणे. पि सत्त्वाद्विध्यर्थनिषेधबाधापत्तेः । सकलद्वेषविषयाजनकत्वं च न ज्योतिष्टोमेपीति विध्यर्थबाधः स्यात् । विजातीयदुःखाजनकत्वं तनिष्कर्ष इति चेन्न । ज्योतिष्टोमादिदुःखस्यापि कुतश्वि द्विजातीयत्वेन विध्यर्थबाधापत्तेः । नरकाजनकत्वं तत्त्वमिति चेन्न । ज्वरितो न भुञ्जीत नेत्ररोगे न स्त्रियमुपेयादित्यादिवैद्यकशास्त्रोक्तनिषेधानुपपत्तितादवस्थ्यात् । न कलजमित्यादिन. यो नरकाजनकत्वाभावबोधकत्वसम्भवेपि तादृशेषु दृष्टार्थकनिषेधेषु तदभावासम्भवेन बाधितार्थकतापत्तेः । वस्तुतस्तु वेदेन तथा बोधनेपि यस्य न तथा द्वेषः स एव प्रवर्तते नान्य इति विधेस्तथा शक्तिकल्पनं निष्फलम् । न चैवं ज्योतिष्टोमादौ पशुहिंसाजन्यपापापत्त्या शिष्टानामप्रवृत्त्यापत्तेस्तद्वारणाय इष्टोत्प. तीत्यादौ शक्तिः कल्प्यतइति वाच्यम् । मरणादिरूपमहानिष्टसाधनेपि सहगमनवेणीप्रवेशनादावात्माहुत्यङ्गके सर्वस्वारयज्ञे चो. स्कटफलेच्छावशादिव महतामपि प्रवृत्त्युपपत्तेर्बहुधोपवर्णितत्वा. है। किं चैवमपि न निषेधसङ्कोचलाभः । श्येनादिवनिषेधानुरो. धेनेष्टसाधनत्वकृतिसाध्यत्वमात्रबोधनेनापि विधिप्रवृत्त्युपपत्तेः ।