SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२२ वैयाकरणभूषणे नेवंविदो ऽसन्तस्तब्धाः सदभिमानिनः पशून्द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तानित्यग्रेषि सङ्गच्छते । नैवमशुद्धं विदुः । असन्तो भोगमात्ररताः । अत एव तदुपसंहारे वासुदेवपराङ्मुखा इति वक्ष्यति । विश्रब्धाः । अनेन मनोरथो भविष्यतीति विश्वस्ता इत्यर्थ इति ध्येयम् । यत्त्वेवं सानयागाननुष्ठानं स्या. दिति । तत्र वक्तव्यं, पापेन पुरुषः प्रत्यवैतु । यागस्य साङ्ग. त्वे को विरोधः । तथा च कत्रधिकरणे भट्टैरुक्तम् । “यो ना. म ऋतुमध्यस्थः कलजादीनि भक्षयेत् । न क्रतोस्तत्र वैगुण्यं यथाचोदितसिद्धित" इति । यन्तु विध्यपेक्षितप्राशस्त्यबोधकत्वमर्थवादानां सर्वसिद्धम् । तच बलवदनिष्टाननुवन्धित्वमेव । अन्यस्यासम्भवात् । अत एवान्यलभ्यत्वान्नात्र विधेः शक्तिन वा विधिनिषेधयोः साङ्कयमिति । तन्न । बलवद्वेषेण त. स्यान्यथासिद्धरक्तत्वात् । शीघूफलदातृत्वादेरेवाननुगतमाशस्त्यस्य सुवचत्वाच्चति साङ्ख्यपातम्जलानुयायिनः । तचिन्त्यम् । उक्तवचनेभ्यो निषेधाप्रवृत्तेरुक्तत्वात् । न च ततः पापस्य स्वल्पत्वकल्पनं युक्तम् । सकृत्प्रवृत्तायाः किमवगुण्ठनेनेति न्यायेन निषेधकल्प्यपापस्य साम्यांशे एव सङ्कोचकत्वासम्भचात् । सङ्कोचस्याप्येकदेशबाधत्वात् । यन्त्वनयैवानुपपत्त्या इष्टोत्पत्तिान्तरीयकदुःखाधिकत्वमपि विधिशक्तौ प्रवेशयन्त इष्टसाधनत्वं कृतिसाध्यत्वमिष्टोत्पत्तीत्यादिवयं शक्यमित्या हुः । तथा च निषेधस्थले तादृशानिष्टजनकत्वमुच्यते । विधिना च तादृशानिष्टाजनकत्वमिति विहित निषेधः प्रवर्ततइति न ज्योतिष्टोमे पश्वालम्भनं पापजनकमिति । श्येनस्थले चेष्टसाधनत्वकृतिसाध्यत्वयोरेवान्वयान विध्यर्थबाध इति वदन्ति । अत्रेदं चिन्त्यम् । नान्तरीयकत्व
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy