SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। ... १२१ हेतोस्तत्र न प्रत्यवाय इत्येत्रोच्यतामिति शङ्कयम् । सामान न्यतः प्रवृत्तनिषेधस्य सत्यां गतौ सर्वथा सङ्कोचासम्भवात् । अत एवाह । सुपरिहरः । अल्पीयसा प्रायश्चित्तेन परिहर्नु शक्यः । अथ प्रमादतः प्रायश्चित्वं नाचरितं तथापि सप्रत्यवमर्षः क्षन्तुमर्हः । मृष्यन्ते हि महत्फलं कामयमानास्तदनुनिपादिक्षुद्रदुःखम् । अत एवाह कुशलस्येत्यादि । पृच्छति । कस्मादिति । उत्तरयति । कुशलं होत्यादि । न च हिंसाजन्यपापापेक्षया यदि स्वर्गस्याधिक्यं तदेदं सङ्गच्छताम् । तत्रैव किं मानमिति वाच्यम् । उक्तोत्तरत्वात् । पशुहिंसाजन्यपापप्रायश्चित्तस्य स्वल्पवित्तव्ययायाससाध्यतया तन्नाश्यपापस्यापि स्वल्पन्वानुमानाच्च । यागस्य च बहुवित्तव्ययायाससाध्यतया तज्जन्यस्वर्गस्य बहुत्वकल्पनात् । अत एवाश्वमेधशतकफलभोगस. मयेपीन्द्रादेरनेको रावणमहिषासुरादिभ्यो दुःखधाराश्रुतिपुराणादिषूपवार्णता सङ्गच्छते । यज्ञान्तर्गतहिंसादिजन्यपाफ्फलस्य तस्य यज्ञफलान्तरुत्पत्तेरुपपत्तिसिद्धत्वात् । अत एव पऽचशिखाचार्यवचनशेषे पठितम् । स्वर्गेप्यपकर्षमल्पमनुभविष्यतीति । अस्तु वा सुखदुःखयोस्तुल्यता । तथा ऽपि तादृशेच्छावशात्मवृत्तिर्नानुपपन्ना । निषिद्धप्रवृत्तिवत् । अत एव विशेषदर्शिनो नैतस्योत्तमत्वं स्वीचक्रुः । अतएवोक्तमेकादशे भागवते "यद् घाणभक्षो विहितः सुरायास्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं न विदुःखधर्म" मिति । आलम्बनमेव प्रागुक्तरीत्या यागः स्पर्शनं वा विहितं न तु हिंसति स्वधर्म न विदुः । किं तु हिंसैव विहितेत्ये. वमेव विदुः । अत एवेमं स्वधर्ममपि विशुद्धं न विदुः । दुःखप्र. योजकत्वादिति भावः । अत एवैतदनानतो निन्दा । ये त्व
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy