________________
वैयाकरणभूषणे
नुभवसिद्धत्वात्तथाकार्यकारणभावावश्यकत्वे कल्प्यमानधर्मेणापि कार्यकारणभावान्तरकल्पने गौरवमिति न तत्कल्पनं युक्तम् । अन्यथा सैन्धवादिपदवाच्यतावच्छेदकत्वेनाप्यश्वादिवृत्तिधर्मान्तरकल्पनापत्तेः । अश्वत्वादिनैव प्रतीतेस्तत्कल्पना न युज्यतइति चेत्, समैवात्रापि फूत्कारत्वयुत्नत्वादिनैव प्रतीतिरिति दिक् । इदं च तार्किकरीतिमनुरुध्य । वस्तुतः कारणतावच्छेदकत्वादिनापि न जातिसिद्धिरिति व्यापारो भा वनेति कारिकायां वक्ष्यते इति कथमेतदिति चेन्न । तचद्रूपेजैव तस्य शक्यत्वात् । अत एव पचतीत्यादौ फूत्कारत्वाधः - सन्तापनत्वयत्नत्वादिभिर्बोधः सर्वसिद्धः सङ्गच्छते । न च नानार्थता | बुद्धिस्थत्वादेः शक्यतावच्छेदकानां तदादावि वानुगमकस्य सत्वात् । उक्तं च हरिणा । गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्धया प्रकल्पिताऽभेदः क्रियेति व्यपदिश्यते इति । क्रमजन्मनामेषां व्यापाराणां समूह एकस्वबुद्धया संकलनात्मकया प्रकल्पितो ऽभेदो यस्य स च स मूहः स्वभावतो गुणभूतैरवयवैर्युक्त इत्यर्थः । एवं च सर्वेषां कारकाणां व्यापारा वाच्याः । यो यदा यस्य बुद्धिस्थस्तदा सोभिधीयते तदैव तदाश्रयः कर्त्ता । अत एव काष्ठं पचति स्थाली पचतीति सङ्गच्छते । एवं च काष्ठेन पचतीत्यपि नानृपपन्नम् । तदा तद्वयापारस्य धात्वर्थत्वाविवक्षणात् । एतेन काष्ठक्रियाया वाच्यत्वे तृतीया न स्यात् । अवाच्यत्वे प्रथमा न स्यादित्यादिकमपास्तमिति न कश्चिद्दोष इति ध्येयम् । एतस्य धातुवाच्यत्वे मानं तु वक्ष्यते । अयं प्रत्ययवाच्य एवेतिमीमांसकाः । अयं न वाच्यः किं त्वेतद्विशेषः कृतिरिति नैयायिकाः । तत्रापि वक्ष्यते । आख्यातस्य न कर्त्ता वा
9