________________
धात्वर्थनिर्णयः। भिधीयमानो व्यापारविशेषः क्रिया । उक्तं च वाक्यपदीये । यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपवात्सा क्रियेत्यभिधीयते इति । वक्ष्यति ग्रन्थकारोपि । व्यापारो भावना सैवोत्पादना सैव च क्रियेति । न च साध्यत्वेनाभिधाने मानाभावः । पचति पाकः करोति कृतिरित्यादौ धात्वर्थावगमाविशेषपि क्रियान्तराकाङ्क्षानाकाङ्क्षयोर्दर्शनस्यैव मानत्वात् । तथा च क्रियान्तराकाङ्क्षानुत्थापकतावच्छे. दकं रूपं साध्यत्वन्तदेवासवभूतत्वम्भावनायाः प्रत्ययार्थतावादेपि पचति पाकभावनेत्यादौ तथादर्शनेनास्यास्तथात्वावश्यकत्वात् । अत एव वक्ष्यति 'साध्यत्वेन क्रियातो 'त्यादि। व्युत्पादयिष्यते चैतदुपरिष्टात् । स च व्यापार आत्मनिष्ठः प्रयना शरीरादीनां च फूत्कारादिः, तद्वत्येव पचतीति व्यवहारात्। अथैवमपि सर्वैतत्साधारणधर्मस्याभावाच्छक्यतावच्छेदका. भावे कथं स शक्यः । न च तत्त्वमेवावच्छेदकम् । नानार्थत्वापत्तेः नानाशक्त्यापत्तेश्च । ननु शक्यतावच्छेदकतयैवानुगतस्य तस्य सिद्धिः । यथा कारणतावच्छेदकत्वादिना, अत एव जलशब्दशक्यतावच्छेदकतया जलत्वसिद्धिरिति लीलावत्युपाये उक्तम् । द्रव्यानुगतबुद्धया द्रव्यत्वस्य गुणपदशक्यता. वच्छे दकतया गुणत्वस्य च सिद्धिरित्यपरे । तच्च जातिरुपाधित्यन्यदेतदिति चेन्न । येन रूपेण बोधस्तस्यैव शक्यतावच्छेदकत्वात् । कल्प्यमानधर्मपुरस्कारेण च न शाब्दबोधः । न च कारणतावच्छेदकत्वादिनापि जातिन सिध्येत् । येन रूपेण कारणताबोधस्तस्यैव कारणतावच्छेदकत्वौचित्यादिति वाच्यम् । कल्प्यमानलघुरूपेण कारणत्वे सम्भवति गुरुरूपेण तदस्वीकारेण तत्र क्षत्यभावात् । अत्र च सिद्धरूपेण बोधस्या