SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे भ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यतेत्यतः फ. काकाक्षानिवृत्यैतयोरनुपयोगात् । न च सर्वेभ्य इति चतुर्थ्या सस्वात्फलसमर्पकत्वमिति वाच्यम् । ऊर्जावरुध्य इत्यत्रेधार्यवादत्वमात्रत्वेन चतुर्युपपत्तेः । किं च । स्तावकत्वेनोपयोगेपि स्तुतिरेव वृथेति वैयर्थ्य दुर्वारम् । प्ररोचनार्थ स्तुतिरित चेत् । न । तस्या अपि व्यर्थत्वात् । पुरुषप्रवृत्तिस्तत्फलामति चेत् । न । अर्थवादामामाण्यं जानतस्तदनुपपत्तेः । बहुदुग्धेयं गौरिति वाक्याप्रामाण्यं जानतस्तद्वाक्यादिवति । अथ स्वर्गाध. र्थकतायामप्रामाण्योप माशस्त्यबोधकत्वद्वारा स्तावकत्वमित्यभ्युपगतेर्थे प्रामाण्यमिति चेन्न । तत्तत्फलजनकत्वातिरिक्तमाशस्त्यस्य काप्यकल्पनात् । धर्मान्तरप्राशस्त्यज्ञानस्य प्रवर्तकत्वाभावाच्च तत्तत्फलाजनकस्यापि तद्बोधनद्वारा प्राशस्त्यमात्रळक्षणायां कुकविषाक्यवदश्रद्धेयता च वेदस्य स्यात् । तस्मारस्थार्थएवैषां प्रामाण्यम् । एवं च सन्ध्यामुपासीतेत्यादौ विधित इष्टावगमेपि तस्यावान्तररूपेण बोधनद्वारा शीघोत्पत्तिज्ञापनद्वा. रा पा प्रवृत्तिविशेषार्थमर्थवाद इति ध्येयम् । अत एव "सर्वशतो प्रवृत्तिः स्यात्तथाभूतोपदेशादि" ति सर्वशक्त्यधिकरणपूर्वपक्षसूत्रे पुरुषार्थस्य भाव्यस्योभयत्रापि तुल्यत्वादित्युक्तं भट्टाचा8ः । व्याख्यातं च, "काम्यं यथा फलायोपदिष्टं तथा नित्यमपीति सूत्रार्थ" इति । एवं चेष्टसाधनत्वमेव विध्यर्थ इति मते नायं दोषः । अथेष्टसाधनत्वस्य विध्यर्थत्वे ज्योतिष्टोमेन स्व. र्गकामो यजेतेत्यादौ तृतीया न स्यात् । करणानभिधाने एवं तद्विधानादिति चेत् । अत्रोच्यते । आश्रयोवधिरुद्देश्यः सम्बन्धः शक्तिरेव वेति वक्ष्यमाणरीत्या आश्रयस्य शक्तेश्चानभिधाने तृतीयादय इति स्थिते ऽत्रापि साधनत्वाभिधानेपि तदनभिधा.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy