SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०४ वैयाकरणभूषणे नं तथा गौरवात् । मानाभावाच्च । किं च । काम्याव्यवहितपूर्व साधनं हि मुख्यतत्साधनं, गौणतत्साधनमपीति वा । आद्यपि तत्वेन ज्ञानं स्वरूपत एव वा । नाद्यः । अपूर्वस्यापि प्रागनुपस्थितत्वेन तत्वेन ज्ञानासम्भवाच्च कार्यतयावगमानापतेः । न द्वितीयः । अपूर्वस्य कार्यतयावगमानन्तरमपि यागस्य कायतयावगमो न स्यात् । मुख्यफले साक्षात्साधनत्वाभावात् । नान्त्यः । यागस्यैव साक्षात्कार्यतयावगमसम्भवाद पूर्ववाच्यत्वहानापतेः । नापि कार्यमिति ज्ञानस्य लोके प्रवर्तकत्वदर्शनातदेव विध्यर्थ इति युक्तम् । कृतिजन्यत्वरूपस्य तस्य धात्वर्थनिष्ठस्य प्रवर्तकत्वात् । न चापूर्वस्य तथात्वसम्भावनापि । तादृशस्य लोकत एव सम्भवाच्चेत्याद्युक्तमेव । एवमिष्टसाधनस्त्वस्य निर्वक्तुमशक्यत्वान्न तच्छक्यमित्यप्ययुक्तम् । तदादेर्घटत्वाद्यवच्छिन्नवाचित्ववत्सम्भवात् । तथाहि । बुद्धिविषयत्वरूपेणोपस्थितघटत्व पटत्वादिशालिषु बुद्धिविषयतावच्छेदकवति शक्तं तदादिपदमित्येव तदादेः शक्तिग्रहः । बुद्धिविषयत्वमुपस्थितावनुगमकमात्रं न तु तदंशे शक्तिः । एवमत्रापि लिङादिरिच्छाविषयतावच्छेदकस्वर्गत्वादिवत्साधनत्ववाचक इति तत्र शक्तिग्रहः । न चात्र तदादौ वा बोध्यबुद्धिरिच्छा वा प्रविष्टा, तेन विनापि बुद्धिविषयतावच्छेदकवति इच्छाविषयतावच्छेदकवति शक्तमिति शक्तिग्रहसम्भवात् । पदार्थोपस्थितिकालेपि तदादी प्रकरणादिवशाद्वक्बुद्धि विषयतावच्छेदकावच्छिन्नबोधवत्समभिव्याहृतस्वर्गादिपदमाहम्ना स्वर्गसाधनमित्येवं बोधसम्भवात् । ननु दुःखस्यापि ईश्वरेच्छाविषयत्वसम्भवात्तFaraaraat शक्यं स्यादिति चेत्, न । इष्टापत्तेर्वक्ष्यमा - णत्वात् । तस्मादिष्टसाधनताज्ञानस्य प्रवर्तकत्वेनावश्यकत्वा ·
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy