SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १०२ वैयाकरणभूषणे कटीकायां वरदराजीये। “मुख्यार्थमभिदधतः शब्दस्य यस्मिन्नर्थे तात्पर्य तस्य तत्र मुख्यैव वृत्तिः यथा स्वर्गकामस्य कक्षान्तरि. तनियोज्यपरस्ये"ति । तथा च स्वर्गकामस्य मम यागविषयको नियोग इति बोधः । अत्रापूर्वस्य यागविषयकृत्युद्देश्यत्वमेव यागविषयत्वम् । यागस्य तादृशकृतिविषयत्वे पुरुषस्याश्रत्वे चान्वयितावच्छेदकमपूर्वकरणत्वं तत्कर्तृत्वं च । तदेव च योग्यता । यथा घटेन जलमाहरेत्यत्र छिद्रेतरत्वम् । योग्यतावच्छेदकोपस्थितिश्च घटेनेत्यादावाध्याहारात्मकते चौपादानिकप्रमाणवशाच्छक्त्यैव । नन्वशक्यमपि तयैव शक्त्योपस्थाप्यते चेत्तर्हि लक्षणो. च्छेदः स्यादिति चेन्न । स्वशक्यान्वयबोधकस्यैव स्वोपपादकसकलार्थबोधकत्वाभ्युपगमात् । गङ्गायां घोष इत्यादौ स्वशक्यान्व. पबोधकत्वाभावेनोपादानप्रमाणानवकाशात् । काकेभ्यो दधि र. क्ष्यतामित्याधजहत्स्वार्थलक्षणा तु नास्त्येवेति क्व दोषः । एवं च या कार्य स्वकीयत्वेन बुध्यते स नियोज्यः फलकामश्च कार्य स्वकीयत्वेन बुध्यते अतः काम्ये स्वर्गकामो नियोज्यः । एवं च वेदबोधितमपूर्वमुद्दिश्य पुरुषप्रवृत्तिरुपपद्यतइति स्वनिष्पत्तिादुपपद्यतइति नेष्टसाधनत्वं विध्यर्थः । किं च । इच्छाविषयसाधनत्वेन स्वर्गसाधनत्वेन वा शक्तिः। नायः । तज्ज्ञानस्यामवर्त. कत्वात् । प्रवर्तकज्ञानविषयस्यैव च विध्यर्थत्वात् । नान्त्यः । अनेकार्थतापत्तेः । तदादाविवेच्छा शक्यतावच्छेदकानामनुगमिकास्तीति चेन्न । तत्र बोध्यबुद्धेरवच्छेदकत्वात् । प्रकृतेपि बोध्येच्छा तथेत्यभ्युपगमे संन्यासिनामिच्छाविरहिणां बोधानापत्तेः । स्वर्गादेः प्रागनुपस्थितत्वेन शक्त्यग्रहाचेति । अपि च । नित्यनै मित्तिकस्थले राहूपरागे स्नायादिति शुचिविहितकालजीविनश्च मम स्नानसन्ध्यावन्दनविषयको नियोग इति बोधानफ
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy