SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे माच्चिकीर्षासम्भवात् । न चेष्टसाधनताशानस्यापि प्रवर्तकर्व न स्यात् । अंनिष्टसाधने उदासीने च कष्ट कर्मेति न्यायेन वृथाश्रमजनकत्वेन द्वेषान्न प्रवृत्तिरिति वाच्यम् । इटाजनके आन्तरालिकश्रमे द्वेषाभावदशायामप्रवृत्तेः सर्वसिद्धाया अनुरोधेन तस्य प्रवर्तकत्वावश्यकत्वात् । किं चेष्टसाधनत्वामिच्छाविषयसाधनत्वं तत्र शक्यत्वं स्वादिसाधनत्वादिना तेन रूपेण ज्ञानस्यैव प्रवर्तकत्वात् । न त्विष्टत्वेन । इच्छाज्ञानानपेक्षणात् । तस्याः स्वरूपत एव हेतुत्वात् । यद्यपि लोके बलाद् गुरुपवर्तनया प्रवृत्तिस्थले किञ्चिदिष्टं ज्ञात्वा मां प्रवर्तयतांति ज्ञात्वा प्र. वर्ततएव तथापि बहुवित्तव्ययायाससाध्ये आमुष्मिके च विशिव्य तज्ज्ञानं विना न प्रवृत्तिरिति विशिष्यैव विधिना बोपनीयमिति विशिष्यैव तस्य शक्तिरुपेया । अत एव लोके फलसन्देहात्मवृत्तावप्येतादृशस्थले तनिश्नयोपेक्ष्यते तत्र चेच्छा नानार्थत्वपरिहाराय तदादाविव शक्यतावच्छेदकानामनुगामिकति तस्वम् । एवं च स्वर्गादिसाधनत्वमनन्यलभ्यत्वाच्छक्यमेव । न चेदमपि स्वर्गकामादिपदसमभिव्याहाराल्लभ्यतइत्यन्यलभ्यत्वम् । कामान्तपदात्स्वर्गाद्युपस्थितावपि साधनत्वबोधकामापात् । विश्वजिदादौ स्वर्गकामादिसमभिव्याहारस्याप्यभावाचेति ध्येम् । अथ मधुविषसम्पृक्तान्नभोजनादौ प्रवृत्तिवारणाय बलवदनिष्टाननुबन्धित्वज्ञानस्य प्रवृत्त्यौपयिकतया शक्यत्वं स्यादिति चेन । बहायाससाध्ये प्रवृत्त्यनापत्तेः । तत्र बहुतरदुःखस्यापि जायमानत्वात् । अल्पदुःखस्यापि कुतश्चिबलवत्त्वात् । अनुगतबलवत्वस्य दुर्वचत्वाच । तस्मात्तचद्विषयको बलवान्वेषः स्वातन्त्र्येण प्रतिबन्धक इति न सत्कल्पनं युक्तम् । अत एवान्तरालिकश्रमे पलबद्वेषवान ज्योतिष्टोमादौ प्रवर्तते अन्यस्तु तयति ध्येयम्। नृसिं
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy