SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। प्रवर्तकत्वे विध्यर्थत्वे वा।आधे, इष्टसाधनत्वं विना प्रवृत्त्ययोगात. स्थापि परदारगमनादौ सन्त्वेन तस्य तुल्यत्वात् । निषिदे प्रवृत्तेः सर्वसिद्धतया प्रवर्तकस्य तत्रातिप्रसक्तरदूषणतया तहूषणासतेश्च । अन्त्ये, निषेधसाधारण्ये निषेधान्वयो न स्यादित्येव बाधकं फलितम् । तच वक्ष्यमाणरीत्या तवापि समानमित्य. लं शिष्यधन्धकदूषणेनेति दिक् ॥ नृसिंहाश्रमास्तु, लिर्थस्तु हितसाधनत्वमेव । न तु कृतिसाध्यत्वांशोपि । तस्यान्यलभ्यत्वेनाशब्दार्थत्वात् । आख्यातान्तधातुसामर्थ्यात्तत्सिः । लिकादेहि तित्वसामान्याकारेणास्ति लडादिवत्कृतौ शक्तिः । सा च सविषयासमभिव्याहृतभावार्थ विषयीकरोतांति प्रवृत्तिविषयस्य कतिसाध्यत्वं लभ्यतएव । न चैवं साध्यत्वादि संस तया भायान्न प्रकारतयोति चिकीर्षानुपपत्तिः । ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावस्यान्यत्रोपपादनात् । किं च । पचतीत्यत्रेवात्रापि यागानुकूला कृतिरित्यन्वयबोधो भवेन तु यागविशेष्यकः । तथा च चिकीर्षानुपपत्तिरेव । विधिकृदादेः कुतौ शक्त्यभावेनानुपपत्तश्चेति वाच्यम् । मनसैव पश्चात्ता. दृशबोपसम्भवात् । यद्वा यागो मत्कृतिसाध्यः मत्कृतिसाध्यत्वविरोधिधर्मानधिकरणत्वादित्यनुमानात्तगह इति पाहुः । तेषामयमाशयः । कृतिसाध्यत्वमाने वेदादवगतेपि न तन्मात्रं प्र. वर्तकम् । अशक्तस्यापि प्रवृत्त्यापत्तेः, किं तु मदंशविशिष्टं तच्च लौकिकममाणेनापि सम्भवतीति न विधेस्तत्र शक्तिरन्यलभ्यत्वात् । मदंशाधन्तर्भावेणं वेदेन बोधयितुमशक्यत्वाञ्चेति । वस्तुतः कतिसाध्यताज्ञानं न प्रवर्तकं कृत्यसाध्ये प्रवृत्त्य. भावश्च तत इष्टाभावेन वृथाश्रमजनकत्वेन द्वेषात, नातस्तच्छक्यम् । न च चिकीर्षानुरोधेन तच्छक्यम् । लोकतस्तदवग.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy