SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे षिद्धस्य ब्रह्महननादेः क्रियाजन्यत्वेन समत्वान्नैतत्कार्यमित्यथः । नेदं मया कृतं न वा क्रियते किं तु कार्यमिति व्यवहारा. द्भविष्यक्रियाकार्य क्रियानिष्ठभविष्यत्वं वा तदित्येतन्निराचहै । न भविष्यदिति । स्रक्ष्यतीति । हिशब्दो हेतौ यतः स्रक्ष्यतीत्यत्र सर्जनानुकूलक्रियाया भविष्यत्वेपि कार्यत्वाभाव इत्यर्थः । न चैतत्कार्यमेव । लिवाच्यताङ्गीकारात् । कत्याश्चेत्यावश्यकाथे कृत्या भवन्ति । तच्चाकर्तुमशक्यमिति तदेव कार्यमित्याशङ्कय निषेधति । कार्यमिति । परनारीगमनादरेकतुमशक्यत्वात्कार्यत्वापत्तिरित्याह । साम्यादेवेति । तादति । तस्मादित्यर्थः । इष्टं तत्साधनं कार्यत्वमित्याह । इष्टमित्यादि । तथा चेष्टत्वस्येष्टसाधनत्वस्य वा ब्रह्मण्यबाधात्कार्यत्वविशिष्टपतिपादकत्वपि नास्माकं क्षातरिति भाव इति । नन्विष्टसाधनत्वस्य चन्द्रमण्डलादिसाधारणत्वात्तत्र प्रवृत्तिः स्यादिति चेन्न । अतीतकार्ये कार्यतायास्त्वदभ्युपेतायाः सत्त्वात्तवापि प्रवृत्त्यापत्तेः । इदानी कार्यताझानं तथेति चेत् । इदानीमिष्टसापनताज्ञानं तथेति समानम् । तस्मादिष्टसाधनत्वान्यकार्यत्वस्य निर्वक्तुमशक्यत्वाद्वाच्यत्वे मानाभावाच्च न तद्विध्यर्थ इति । ततुच्छम् । चन्द्रमण्डलादौ प्रवृत्त्यापत्त्या कृतिसाध्यताज्ञानस्य प्रवर्तकत्वात् । न चेदानीमिष्टसाधनताज्ञानं प्रवर्तकं तच्च तत्र नास्तीति वाच्यम् । इदानींतनत्वमिच्छायास्तद्विषयस्य वा विशेषणम् । आये, चन्द्रमण्डलफले इच्छाया इदानीं सर्वसिद्धत्वादोषानिवृत्तिः । अत एव न साधने साधनत्वे वा । अन्त्ये, यागादी प्रवृत्तिर्न स्यात् । वर्गस्येदानीन्तनत्वाभावात् । अ. स्माकं पुनः कृताविदानीन्तनत्वं विशेषणमिति न दोषः । किं च कार्यत्वं न क्रियाजन्यत्वरूपमिति मध्वखण्डनं कार्यतायाः
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy