________________
लकारार्थनिर्णयः ।
पि सम्भवेन बाध्यबाधकभावायोगात् । तदुक्तम् । अस्ति चसम्भवो यदुभयं स्यादिति । किं च । एवं हि लः कर्मणीति निरकाशमेव स्यात् । स्थळान्तरेपि विध्याद्यर्थैर्वाघापत्तेः । तथा चा" नर्थक्यप्रतिहतानां विपरीतं बलाबलमि" ति न्यायाद्भवति सामान्यप्रवृत्तिः । अथातिरिक्तकालस्य वाच्यत्वे पूर्वमुदाहृतं भा व्यमलग्नकं स्यादिति चेन्न । द्योतकत्वपक्षमादाय तदभिधानात् । वस्तुतस्तु कालस्यातिरिक्तत्वेपि वर्त्तमानत्वं तत्र प्रारब्धापरिसमाप्तक्रियोपलाक्षतत्वम् । तच्चात्मास्तीत्यादौ क्रियायाः प्रारब्धत्वाभावान्न सम्भवतीति कथं वर्त्तमानत्वमिति शङ्काशयः । क्रियाया अमारब्धत्वे ऽपि किञ्चिद्विशिष्टायाः प्रारब्धत्वात्तदुपलक्षितत्वस्य सम्भवाद्भवति वर्त्तमानत्वादिकमिति सिद्धान्ताशय इति ध्येयम् । वस्तुतः कालो नातिरिक्तः किं तु क्रियैव । तंगतं प्रारब्धापरिसमाप्तत्वादिरूपं वर्त्तमानत्वादिकं लढर्य इति परमार्थः । तस्माद्वर्त्तमानत्वं वाच्यमेव । इत्थं चात्मास्ति पर्व - तास्तिष्ठन्तीत्यादावपि वर्त्तमानत्वं " तम आसीत्" “तुच्छेनाभ्वपिहितं यदासीत्” “एको ह वै नारायण आसी” दित्यादौ भूतत्वमपि सङ्गच्छते । लिडर्थमाह । परोक्षे इति । परोक्षेलिडिति सूत्रात् । काळस्तावदद्यतनानद्यतनभेदेन द्विविधः । द्विवि धोपि भूतभविष्यद्रूपः । तत्रानद्यतने भूते परोक्षे लिडिति भावः । तेनाद्यतने भूते ऽनद्यतने भविष्यति भूतेप्यपरोक्षे च न लिट्प्रयोगः 1 परोक्षत्वं प्रयोक्तृवृत्तिसाक्षात्करोमीत्येतादृशाविषयताशालिज्ञानाविषयत्वम् । ननु परोक्षत्वं स्वव्यावर्त्तकं सर्वस्या अपि क्रियायाः परोक्षत्वात् । तदुक्तं भाष्ये । क्रिया नामेयमत्यन्ताः परिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुमितीति चेन्न । तदनुकूलशक्तिमतां व्यापाराविष्टानां साधना
1