SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे व्यापारस्यापि विशिष्टोत्पत्तिमादाय सुपपत्तिरेव । एवमेव सिद्धान्तभाष्यं कैटोपि व्याचष्टे । इह भूतभविष्यद्वर्त्तमानानां राज्ञां याः क्रियास्तास्तिष्ठतेरधिकरणमिति प्रतीकमादाय तत्र राहां स्थितिर्भूतादिभेदेन भिन्ना पर्वतादिस्थित्यादेर्भेदिकेति क्रियारूपत्वं कालत्रययोगश्चोपपद्यतइत्यर्थ इति । तस्माद्विशिष्टभेदमादायैव भाष्यम् । उक्तं हि वाक्यपदीये । परतो भिद्यते सर्वमात्मा तु न विकल्प्यते । पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यत - इति ॥ विशिष्टभेदाद्भेद इत्येतद्वयाख्यायां हेलाराजीये स्पष्टम् । अत "एवैको ह वै नारायण आसीदि" त्यादौ विशिष्टभेदमादायैवोपपत्तिरिति शब्दकौस्तुभेप्युक्तम् । तस्माद्वर्तमानकाळो व्यापारात्मक एव । तन्निष्ठवर्त्तमानत्वस्य चान्वयव्यतिरेकाभ्यां द्योत्यत्वं सुसङ्गतमेव । एवं तस्यैवानुत्पत्तिर्भविष्यत्त्वं निष्पत्तिश्च भूतत्वम् । तस्मिन् द्योत्ये लढादय इति तत्रतत्रावधेयम् । तस्माद्द्योतकत्वमेवेति निरूढः पन्थाः । एवं वाचकत्वेपि नानुपपत्तिः । तथाहि । वर्त्तमानकालो लड्वाच्य एव वर्त्तमानेल डिति सूत्रस्वरसात् । "क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिके" ति वाक्यपदीयेन कालस्य क्रियापरिच्छेदकत्वाभिधानाश्च । न च स्वपरिच्छेदकत्वं स्वस्यैवेत्युपपद्यते । किं च । क्रियाया लटं विनापि प्रतीतेस्तभिष्ठं वर्त्तमानत्वमेव योत्यम् । तथा च तदपि धातुशक्यं वाच्यम् । तथा च बहूनां धातूनां तत्र शक्तिकल्पनामपेक्ष्यैकस्यैव क्रटो वर्त्तमानत्वे शक्तिरित्युच्यताम् । लाघवात् । अपि च वर्त्तमानत्वविशिष्टक्रियाबोधं प्रति लट्समभिव्याहारः कारणमिति त्वया वाच्यं तथा च तुल्यत्वाल्लुटो बाचकत्वमेोच्यताम् । अथैवं तत्र कर्ता वाच्यो न स्यात् । विशेषेण सामान्यस्य बाधादिति चेत् । मैवम् । अर्थद्वयस्वा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy