SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। तकत्वं च शक्तयाधायकत्वं, न चैतद्धातोः शक्तयभावे सम्भवति । न च स शक्त एव । बहूनां धातूनां तत्र शक्तत्वे गौरवात् । एकस्य लट एव वाचकत्वौचित्याच्च । किं च वर्तमानेलाडिति विशिष्य विधानपि लटस्तत्राशक्तत्वे कापि वाच्यो न स्यात् । स्याच्च द्योत्य एव । अविशेषात् । अत एव धातोर्वर्तमानत्वे लक्षणा तात्पर्यग्राहकस्तु लट् तात्पर्यग्राहकत्वमेव च द्योतकत्वमित्यापि निरस्तम् । न द्वितीयः । लटः सामान्यतो लकारार्थेन निराकांक्षतया तत्रैतस्याप्रवृत्तेः । तथापि प्रवृत्तौ च विशेषेण सामान्यस्य तक्रकौण्डिन्यन्यायाद्वाधाकर्तुंर्वाच्यत्वा. नापत्तेरिति चेन्मैवम् । पक्षद्वयस्याकरेभिहितत्वाद्युक्तिसिद्धत्वाच्च । तथाहि । वर्तमानकालो लडद्योत्यः । वर्तमानकालस्य धात्वर्थत्वात् तस्य लटं विना चामतीतेः शक्तयाधायकत्वमेव वाच्यम् । न च तस्य धातुवाच्यत्वे उक्तदोषः स्यादिति वाच्यम् । व्यापारसन्तानातिरिक्तकालस्यानभ्युपगमात्तस्य च धातुवाच्यत्त्वस्योपपादितत्वाच्च । तथाहि । कालो न व्यापारसन्तानातिरिक्तः मानाभावात् । अतिरिक्तकल्पने च तच्छक्तत्वस्यापि कल्पनापत्तौ गौरवापत्तेश्च । किं च अतिरिक्तकालस्यैव वाच्यत्वे आत्मास्तीत्यादौ तत्तत्कालिकसूर्यादीनां कियाया निराबाधात्तामादायैवोपपत्तौ कथं पर्वतास्तिष्ठन्ति आत्मास्तीत्यादी लडादिप्रयोग इत्यर्थकशङ्काभाष्यमसङ्गतं स्यात् । स्याच्च तत्तत्कालिकराज्ञां क्रियामादायोपपत्तिरिति सिद्धान्तभाष्यमपि तथा । तावत्पर्यन्तं दूरे धावनानुपपत्तेः । अस्मत्पक्षे चात्मधारणानुकूलव्यापारस्य प्रारब्धत्वाभावात्मारब्धापरि. समाप्तत्वरूपवर्त्तमानत्वस्यासम्भवादाशङ्कासङ्गतेः । सिद्धान्तस्थापि तत्त्कालिकानां राज्ञां क्रियामादायात्मधारणानुकूल
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy