SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे नां पारोक्ष्यस्येह विवक्षितत्वात् । तेन क्रियानाविष्टसाधनमात्र प्रत्यक्षोप लिट् भवत्येव । यथायं पपाचेत्यादौ । एवं स्वव्यापारस्यापि वर्तमानतादशायां व्यासङ्गादिना स्वयमप्रतिसन्धानेपि ततः कार्येणानुमितौ भवत्येव लिट् । यथा “बहु जगद पुरस्तात्त. स्य मत्ता किलाह" मिति वदन्ति । "व्यातेने किरणावामुदयन" इति त्वयुक्तमेव । उक्तरीत्या यथाकथंचित्परोक्षत्वोपपादनेप्यनद्यतनत्वातीतत्वयोर्बहुतरमनःप्रणिधानसाध्यशास्त्रार्थनिर्णयजनकशब्दरचनात्मकग्रन्थे विस्तारक्रियायामसत्वेन लिटो ऽयोगात् । इदं त्ववधेयम् । क्रियाया एव पारोक्ष्ये लिडित्यर्थो लाघवा. त् । यतो धातोरित्यधिकारस्य धात्वर्थे लक्षणायां स्ववाच्यत्वं सम्बन्धः साधनलक्षणायां स्ववाच्यसाधनत्वं सम्बन्ध इति गौरवम् । न च सर्वा क्रिया परोक्षेत्यव्यावतकं तत् । समुदायस्य परोक्षत्वेपि प्रत्येकमपरोक्षत्वात् । अत एव पिण्डीभूता न निद. शयितुं शक्येति भाष्यपि । अत एव पश्य मृगो धावतीत्यत्र धावनक्रियाया एव पश्येत्यत्र कर्मत्वं सर्वसिद्धमेव । न च प्रत्येक न क्रियात्वमिति वाच्यम् । तावतापि धात्वर्थत्वाक्षतेः । परोक्षत्वमपि भाष्योक्तं क्रियायां सङ्गच्छतइति प्रतिभातीति दिक् । लुडर्थमाह । श्वो भाविन्यर्थे इति । अनद्यतने भाविनीत्यर्यः । अनद्यतने लुडिति सूत्रात् । यथा श्वो भवितेत्यादौ । लुडर्यमाह । भविष्यतीति । भविष्यत्सामान्यइत्यर्थः । लदोषेचेति सूत्रात् । यथा घटो भविष्यतीत्यादौ । तत्त्वं च वर्तमानप्रागभा. वप्रतियोगिसमयोत्पत्तिमत्त्वम् । लेटोर्थमाह । विध्यादाविति । लिउथैलेडिति सूत्रात् । आदिना निमन्त्राणामन्त्राणाधीष्टादयो गृह्यन्ते । विधिर्नाम प्रेरणम् । भृत्यादनिकृष्टस्य प्रवर्त्तनमिति यावत् । निमन्त्रणं नियोगकरणम् । आवश्यके श्राद्धभोजनादौ दौहित्रा.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy