SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे भवद्रीत्या प्रत्ययार्थत्वात् प्राधान्या(१)पत्तिश्चेति द्रष्टव्यम् ॥८॥ साधकान्तरमाह. किं कार्य पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि । किञ्च क्रियावाचकतां विना धातुत्वमेव न ॥ ९ ॥ कामित्यत्र, ऋहलॊण्यत् (पा० सू० ३ । १ । १८४) इति कर्मणि ण्यत् । पचनीयामित्यादौ चानीयर् । आदिना, 'ज्योतिष्टोमयाजी' इत्यादौ करणे उपपदे कर्तरि णिनिः । एते साधारण इति* ॥ घटकतया प्रयोगद्वयाऽनुस्यूत इत्यर्थः। तथाच प्रयोगद्वये नियतवृत्तित्वेन धातोरेव भावनावाचकत्वसिद्धिः । धातुत्वस्य शकतावच्छेदकत्वेन लाघवान तु तिकृतोस्तित्वस्य चाननुगतस्य शक्ततावच्छेदकत्वे गौरवात् । परस्परव्यभिचाराचे. त्युक्तापत्तेर्नेष्टत्वसम्भावनेति भावः। ननु धातुत्वस्य शक्ततावच्छेदकतायाः प्रागेव निराकृतत्वानो. कदूषणस्याऽपिशब्दसमुश्चयत्वमत आह भवद्रीत्येति । स्वमते भावनायाः प्रकृत्यर्थत्वादुक्तं-भवदिति । प्रयत्यार्थत्वादित्यनेन पूर्वो. तमतद्वयमध्ये त्वस्यैव मीमांसकसम्मतत्वमिति सूच्यते । व्याख्यातं च तथैव । अवतरणे तन्न्यायविरोधोपदर्शनं तु प्रत्ययाऽर्थत्वप्राधाभ्ययोः प्रायशः समनैयत्येन, प्रधानस्य प्रत्ययार्थत्वसाधकत्वस्याउ पि ततो लाभेन प्रकृतिवाच्यत्वे तदनुपपन्नमित्याशयेनेति बोध्यम्॥८॥ साधकान्तरमित्यस्य धातोर्व्यापारवाचकत्वे इत्यादिः । कि कार्यमित्यत्र प्रश्नोत्तरभावरूपविवरणेनैव व्यापारस्य धात्वर्थत्वास. द्धिरित्यत्र न तात्पर्य, किंतु प्रश्नोत्तरभावरूपविवरणस्य प्रक्रान्तत्वात् किम उल्लेख इति सूचयन्नाह *कार्यमित्यत्रेति*। *णिनिरिति । "भूतें" इत्यधिकृत्य,"करणेयजः" (पा० सू०३।२१५) इति सूत्रेणेति शेषः ॥ एते ण्यदादय इत्यर्थः ।। (१) कर्तृकर्मणोराक्षपलभ्यत्वेन गौणत्वात् भाषनाया एव प्राधा. न्यापत्तिरित्यर्थः। सातु नेप्यते तैरिति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy