SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ धावर्थनिर्णयः । ८५ तदागमे हीति न्यायो विवरणञ्चाऽतिव्याप्तमित्याह- किं कृतं पक्वमिति ॥ कुञा विवरणं प्रतीतिश्च पक्कमित्यत्रापि, इति तत्रापि भावना वाच्या स्यादिति भावः । नन्वस्तु तिङ इत्र कृतामपि भावना वाच्येत्यत आह- अपीति ॥ तथाचोभयसाधारण्येन तत्प्रतीतेरुभयसाधारणो धातुरेव वाचक इति भावः । यार्थ इति नियमस्य पाणिनिनाऽनाहतत्वेऽपि, यो यः प्रत्ययार्थः स प्रधानमित्यर्थस्य, 'तदागमे हि' इति सूत्रयता जैमिनिनाऽऽहतस्याऽ दुष्टत्वादाख्यातार्थतयैव व्यापारस्य प्राधान्यम्। टाबादीनां द्योतकत्वेन संख्यावाचकत्वेऽपि प्रत्ययजन्योपस्थितौ संख्याद्यवृत्तित्वस्य विशेषणाश्चोक्तकार्यकारणभावस्य निर्दुष्टत्वादित्यम्ये । प्रतीयमानाऽ र्थस्य प्राधान्यमिति, 'तदागमे हि' इति न्यायाकार इत्याशयेनाह *तदागमे होतीति* । अतिव्याप्तमिति । 'नपुंसकमनपुंसकेन' इति क्लीवशेषतैकवचनामततायां च व्यभिचरितमित्यर्थः । तदेव विशदयति *कृञेति । पक्कमित्यत्रापिनाऽनुपदोकपक्कवानित्ययस्याऽपि संग्रहः । तत्र भावनाया आक्षेपात् प्रतीयमानत्वेऽपि प्रत्त्ययार्थत्वाऽभावेन व्यभि चारसम्भवात् । किं कृतमित्यतो व्यापारविषयस्य जिलास्यत्वाऽ वगमात् पक्कमित्यतस्तदनवबोधेनाऽस्योत्तरत्वाऽनुपपत्या व्यापारबोधकत्वोव्ये तस्य प्रत्ययार्थत्वाऽभावादव्यभिचार इत्यर्थः ॥ *विवरणमिति* । विवरणं चात्र प्रश्नोत्तररूपमेव । तदूषोंधनार्थमेव किमनुल्लेखः । अन्यथा केवलकृतशब्दस्य पक्कपदविवरण तया लोकाऽप्रसिद्धेर्विवरणं वाऽतिव्याप्तमित्यस्याऽसङ्गतेः । *वाच्या स्यादित्ति* । प्रत्ययवाच्या स्यादित्यर्थः । अपिशब्दः पूर्वोक्ताऽर्थस्यैव न समुचायकः, किन्त्वर्थान्तरस्यापीति वक्तुमाशङ्कते *न्न्विति* । तथाचोक्तापत्तिरिष्ठैवेति भावः । अपिसमुच्चितार्थे प्रकटयति तथाचेति । *उभयेति* । आख्यातकृदन्तोभयेत्यर्थः । *साधारण्येनेति । साधारण्यमत्र समभि• वाहाराविशेषः । *प्रतीतेरिति । भावनाप्रतीतेरित्यर्थः ॥ *उभय
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy