SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ४४ दर्पणसहिते वैयाकरणभूषणसारे स्यादौ विपर्ययेणापि व्युत्पन्नाना(१) नैयायिक(२)नव्यादीनां बोधो, नतु तद्व्युत्पचिरहितानाम्। अन्येषां तनिराका. कमेवेसादिकं सङ्गच्छते । . अत एव, “प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वाद' (पा० ० १ ।२। ५३) इत्याह भगवान पाणिनिः । प्रधानं प्रत्ययार्थ इति वचनं न कार्यम् , अर्थस्य अर्थावबोधस्थान्यपमाणत्वाद्-व्युत्पत्त्यनुसारित्वादिति हि तदर्थः । एवं सत्यपि नियामकापेक्षणे च, "भावप्रधानमाख्यातम्" इति वचनमेव(३) गृह्यतामिति सुधीभिरुह्यम् । ऽभ्युपगमादित्यभिप्रेत्व नव्यानामित्युक्तम् । निराकासमित्यस्याऽsघेयतासंसर्गेण बोध इति शेषः । अतएवेति । बोधस्य व्युत्पत्यनुसारित्वादेवेत्यर्थः । *व्युत्पत्त्यनुसारित्वादिति । कार्यका. रणभावग्रहाधीनत्वादित्यर्थः । बोधानुसारिणी हि व्युत्पतिर्न हि बोधो व्युत्पत्यनुसारी। अत एवारोपे सति निमित्तानुसरणं, न तु निमित्तमस्तीत्यारोप इति प्रामाणिकाः। (४) अर्थस्य विशेष्यत्वादिना प्रतीयमानस्य अन्यप्रमाणत्वात् स्वविशेषणीभूतप्रतीत्यनुरोधकव्युत्पत्तिकवादित्यर्थः। प्रधानं प्रत्या (१) व्युतभानामिति । आधाराधेयभावसबन्धेन घटप्रकारककर्म. स्वविशेष्यकबोधजनकताग्रहवतामित्यर्थः। (२) नैयायिकनव्येति । कर्मधारयसमासे नैयायिकशब्दस्य क्रियाशब्दतया पाठकपाचकादौ पाठकादिषरपूर्वनिपाते नैयायिकनव्यश. ब्दस्य साधुत्वम् । (३) एवकारेण 'प्रकृतिप्रत्ययोः' इत्यस्य व्यावृत्तिः। तस्यौत्सर्गिक स्वात् । भगवान्भाष्यकारेणापि अनुमोदितमेतत् "सर्व नामधातुजमा. हव्याकरणे शकटस्य च तोकम्" इत्यनेन । (४) प्रधानप्रत्ययायेत्यादिसूत्रीय 'अर्थस्याम्यप्रमाणत्वात्' इति पदं व्याचष्टे 'अर्थस्य' इति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy