________________
धात्वर्थनिर्णयः ।
८३
तथा व्युत्पत्त्यनुरोधात् ।
अत एव नैयायिकानां प्रथमान्तविशेष्यक एत्र बोधः । लक्षणायामालङ्कारिकाणां शक्यतावच्छेदकप्रकारक एवं बोधो, न नैयायिकादीनाम् । घटः कर्मस्वमानयनं कृतिरि
तथाच व्युत्पत्त्यनुसारी बोधो, न तु बोधानुसारिणी व्युत्पत्तिः । एवञ्च तादृशव्युत्पत्यङ्गीकर्तॄणां तथैव बोधोऽन्याहव्युत्पत्तिमतां त्वन्यथापीति भावः । तदेव विशदयति *अत एवेति । *शक्यताऽ वच्छेदकप्रकारक इति ॥
'लक्षणाssरोपिता क्रिया' इति काव्यप्रकाशीयसूत्रपर्य्यालोच. नया शक्यतावच्छेदकारोपविषयनिष्ठसंसर्गस्यैव लक्षणात्वलाभादू, 'गङ्गायां घोष' इत्यत्र गङ्गात्वेनैव लक्ष्यार्थप्रतीतिरतं एव ततो वैयञ्जनिकी शैत्यपावनत्वादिप्रतीतिः । 'जाता लता हि शैले' (१) इत्यादौ च कनकलतात्वेनैव रूपेण बोधस्य चमत्काराऽऽधायकत्वादिति तदाशयः ॥
* नैयायिकादीनामिति । सम्बन्धितावच्छेदकरूपेणैव लक्ष्या र्थस्य भानम् । अत एव 'कचतस्त्रस्यति वदनम्' इत्यादौ सम्बन्धितावच्छेदकराहुत्वादिनैव बोधस्य त्रासाssधायकस्योपपत्तिः । कचत्वादिशक्यतावच्छेदकरूपेण लक्ष्याऽर्थबोधाङ्गीकारे तदनुपपतिः स्पष्टैव । किञ्च शक्यतावच्छेदकं, न लक्ष्यतावच्छेदकम् । शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा । इत्यभियुक्तोक्तिविरोधादिति तद्भावः ॥
*घटः कर्मत्वमिति ॥ नव्यमते एकपदेऽपरपदव्यतिरेक प्रयुक्कान्वयाननुभावकत्वस्याकाङ्क्षात्वोपगमेन घटपदे कर्मत्वपदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वज्ञानदशायां तादृशवाक्यात्तैः शाब्दबोधा·
(१) जातुलतायां न जायते शैलः । संप्रतितद्विपरीतं कनकल तायां गिरिद्वयं जातम् ॥ इति तस्य शेषः । अत्र च लतात्वेन रूपेण: बोधस्य चमत्कारजनकत्वम् । नतु स्त्रीशरीरे स्तनद्वयम् गंगातीरे घोषः इत्यस्येति स्पष्ठमन्यत्र ।